________________
(८)
सिद्धान्तचन्द्रिका । [ आख्याते म्वादयः ] सूत्रारम्भाच्च । अतः परिशेषात्तिबादीनां चतुर्विधानामाख्यातानां तद्विकरणानां चानेन ङित्त्वं नान्येषाम् । तेन विभरांचकारेत्यादावामो न ङित्त्वम् ।।
(तत्त्वदी०)-अपित्तादिरिति||प् इद्यस्य स पित त आर्यस्य स तादिः पिच्च तादिश्च पित्तादी ताभ्यामन्योऽपित्तादिः । नत्रिति समासः। ङित्-विदित्यर्थ । पर्युदासात्प्रत्यय एव गृह्यते न तु धातुः। न तु दैयदाभिन्नस्य धातोर्डिंत्वं सति ङित्त्वे आत्स्यान्न । ङिदित्यपहाय किदिति तु नोक्तं वक्त इत्यादौ यजादित्वात्किति संप्रसारणप्रसङ्गात् कुरुत इत्यत्र इत्यदुरित्यस्याप्रसङ्गात् तादीत्यत्रादिग्रहणं तूत्तरार्थ सिसतासीत्यत्रैव नवानां ग्रहणसंभवात् । सिस्योरिति लिङ्गान्तयोर्ग्रहणार्थमपि न । तशब्देन विग्रहस्तु व्याख्यानानुसारान्न । सादेः कृतां च ङित्त्वं तु न'नानिटि से'इति सूत्रारम्भात् । यङ्नङित्करणात् ज्ञापकात् । अतस्तिबादीनां तद्विकरणानामनेन ङित्त्वं, जान्येषां तेन बिभरांचकारेत्यादौ न ङित्त्वम् । यत्तु आदिशब्दादायोऽपि गृह्यते, तेन-गोपायतीत्यादिसिद्धिरिति वासुदेवेनोक्तं, तद्रभसात् ।
ङित्यद्वयुसि ॥ किति डिति च परे वृद्धियों न, द्विर्वचनहेतुके उसि गुणः स्यात् ॥ इति तसि गुणाप्राप्तौ अनिमित्तो गुणः । भवतः॥ - (सुबोधिनी)-डित्यद्वयुसि ॥ क् च ङ च की तावितौ यस्य स तथा तस्मिन् । अद्युसीति विशेषणम् । द्वित्वनिमित्ते उसि न अजुहवुः ॥
(तत्त्वदी०)-संज्ञाफलमाह-कृङित्यद्वयुसि॥ च ङ् च ौतावितौ यस्य स तथा तस्मिन् । अद्वयसीति विशेषणम् । द्विरुक्तधातोनिमित्तभूतादुस् द्वथुस् तर गत् अन्यस्मिन्नित्यर्थः । अतो जुहुकुरित्यादौ तादृशस्य उसोऽभावान गुणः । यत्तु नोक्तमनित्यमित्यनेन अजुहबुरित्यादौ न गुण इति वासुदेवेनोक्तम् । तन्न, आदेः स्वरेऽपि नोपधाया गुण इति र त्रेणैवात्र गुणनिषेधे सिद्धे तदर्थ नोक्तमनित्यमित्याश्रयणस्य व्यर्थत्वात् ।
अदे ॥ अतो लोपो भवत्यकारे एकारे च परे । भवन्ति । भवसि, भवथः, भवथ ॥
(सुबोधिनी)-अदे अच्च ए चेति पृथक्पदे अविभक्तिके । अत इत्यनुवृत्तम् । अतो लोपो भवति अति एति च परे ॥ भवन्ति । पचे ॥अतः किम् । अवन्ति । ब्रुवे ।। तपरः किम् । यान्ति । गै। आख्यातप्रकरणे एवायं विधिस्तेन न स्यादावातव्याप्तिः।
(तत्त्वदी०)-अदे इति ॥ अच ए च अदे । लुप्तसप्तमीकम् । त इति त्वनुवर्तते । यादावतिव्याप्तिस्त्वाख्यातप्रकरणत्वान्न ॥
मोरा॥ वमयोः परयारत आत्वं स्यात् ॥ भवाभि, भवावः, भवामः। स भवति । त्वं भवसि । अहं भवामि । युगपत्प्राप्तौ परः।