________________
[ आख्याते भ्वादयः ]
टीकाद्वयता ।
( ७ )
कर्तृकर्मणी क्रियाविशेषणे । क्रिया तु विशेष्येति शाब्दिकमतम् । वर्तमानोऽर्थो यस्याः सा वर्तमानार्था सा चासौ क्रिया चेति शाकपार्थिवादित्वात् मध्यमपदलोपः । वर्तमानक्रिया सा वृत्तिर्यस्य स तथा । तस्मात् तिवित्यादेः समाहारे ऐकपद्यम्, अन्यथा - समासे त्वष्टादशपदत्वम् ॥
(तत्त्वदी ० ) - वर्तमाने इनि व्यापारे इति शेषः । व्यापारश्च क्रिया, सा च त्रिविधा अतीतानागतवर्तमानभेदात् । सा च धानुवाच्या इत्याशयेनाह - वर्तमानार्थेत्यादि । वर्तमानः अर्थो यस्याः सा वर्तमानार्था सा चासौ क्रिया चेति सा तत्र वृत्तिर्यस्य स तथा तस्मादित्यर्थः । तिबित्यादेः सामाहारे ऐकपद्यम् । अन्यथा त्वष्टादशपदत्वम् । तिबादयश्च वर्तमानक्रियाया द्योतका एव, न तु वाचकास्तस्य धातुनैव लाभात् । वर्तमानत्वं तु प्रारब्धापरिसमाप्तत्वम् । विंशत्यादिवर्षपर्यन्त वेदाध्ययनेऽपि अधीते इति प्रयोग दर्शनात् । भूतभविष्यद्भन्नत्वमिति लक्षणं तु न; भविष्यद्वर्तमानभिन्नत्वं भूतत्वं, वर्तमानभूतभिन्न वं भविष्यत्वमित्यपि स्यात् । तथा च - अन्योन्याश्रयदोषः स्यात् । पर्वतास्तिष्ठन्तीत्यत्र तु स्वतो भूत द्यभावेऽपि कालत्रयवर्तिनां राज्ञां भूतादिभेदभिन्नपालनादिक्रियाभेदाद्भूतादिव्यवहारः । तथाहि - नलादिकाले तस्थुः । कल्क्यादिकाले स्थास्यन्ति । इदानीन्तनराजकाले तिष्ठन्ति । आत्माऽस्तीत्यत्रापि शरीराद्युपाध्यतीतत्वादिनाऽतीतत्वादिव्यवहारोऽस्तीति दिक् ।। अप कर्तरि ॥ कर्त्रर्थेषु तिवादिषु चतुर्षु दिप्पर्यन्तेषु परतो धातो. रपू स्यात् ॥
(सुबोधिनी) - अप् कर्तरि ॥ कर्तरीति नापोऽभिधेयमाख्यातोक्तत्वात्, किं त्वनुवृत्तस्य चतुष्वित्यस्य विशेष गम् । धातोरप्स्यात् कर्त्रर्थेषु चतुर्षु परतः ॥ अपः पित्त्वम् अपित्तादिङिदिति ङित्त्वाभावार्थम् । अन्यथा भवत इत्यादौ ङित्त्वाद्गुणो न स्यात् ॥ (तत्त्वदी०) - अपू कर्तरीति ॥ कर्तरि विहितेषु चतुर्षु तित्रादिषु || गुणः ॥ नाम्यन्तस्य धातोर्गुणो भवति ॥
(सुबोधिनी ) - गुणः ॥ अरेदो नामिन इति नियमान्नामिग्रहणम् । तस्य धातोर्विशेषणत्वात् तदन्तविधिः ॥
( तत्त्वदी० ) - गुण इति अरेदो नामिन इति नियमान्नामिग्रहणम् । तस्य च विशेषणत्वातदन्तलाभ इत्याशयेनाह - नाम्यन्तस्येति ॥
अपित्तादिङित् ङिद्वत्स्यात् ॥
॥ पकारेतं तादिकं च विहाय अन्यप्रत्ययों
ता.
T
भूमिजी सि (सुबोधिनी ) - अपित्तादिर्द्वित् ॥ पू इत् यस्य स पित् त आदिर्यस्य स तादिः पिच्च तादिश्व पित्तादी ताभ्यामन्योऽपित्तादिः । नञिति समासः । ङित् ङिद्वदित्यर्थः ॥ अत्र पर्युदासबलात् पित्तादिभिन्नः प्रत्यय एव गृह्यते, न धातुः ॥ ननु सादेः कृतां चानेन ङित्त्वं कुतो नेति चेन्मैवं यङ्नङोङित्करणात् ज्ञापकात् । 'नानिटि से' इति