________________
सिद्धान्तचन्द्रिका।
[आख्याते भ्वादयः ]
कर्तृता । युष्मदर्थयोरेव प्रधानत्वात्कर्तृत्वेन मध्यमोत्तमावेव । अतित्वं पचतीत्यादौ तु तथात्वामावान्न तथा। अत्वं त्वं संपद्यते त्वद्भवतीत्यादौच्च्यन्ते तु संघीभवन्ति ब्राह्मणा इत्याद्यनुरोधेन प्रकृतेरेव कर्तृत्वं न विकृतेर्युष्मदर्थस्य । उक्तं च । “यदा च्व्यर्थे विनिर्देश्ये भवतो युष्मदस्मदी। द्वयोरपि तयोर्योगे न धातोर्मध्यमोत्तमौ ॥ प्रकृतेर्विकृतेर्वाऽपि ह्येकदा प्रतिपादने । वाचकः प्रकृतेः संख्यां गृह्णाति विकृतेन तु ॥" मृद् घटा भवन्ति ओदनस्तण्डुला भवन्तीत्येव ॥
कर्तरि पंच॥ चादात् । भू सत्तायाम् ॥ (सुबोधिनी)-कर्तरि पं च ॥ कर्तरि वाच्ये धातोः पं भवति चकारादादपि ॥ पचाति, आख्यातप्रत्ययेनोक्तत्वात् । कतरि प्रथमा ॥ ननु भावकर्मकर्तृष्वाद्विधानात कथं निर्णयः स्यात् । मैवं प्रयोगानिर्णयसंभवात् । आस्त शेते नर इत्यत्र कर्तरि प्रथमादर्शनात् ॥ कर्तर्यात् ।। शय्यते आस्यते नरेणेत्यत्र कर्तरि तृतीयादर्शनात् भाव आत् ॥ चक्रे करिष्यते वा घटं कुलाल इत्यत्र कर्तर्यात ॥ चक्रे करिष्यते वा घटः कुलालेनेत्यत्र कर्मण्यात् ॥ कर्मणि प्रथमायाः कर्तरि तृतं यायाश्च दर्शनात् कृषीष्ट कतैत्यत्र त्वनिर्णय एव । यथा रामाभ्यामित्यत्रानिणेयः ।।
वर्तमाने तिप् तस् अन्ति सिप थस् थ मिप् वस् मस् ते आते अन्ते से आथे ध्वे ए वहे महे ॥ वर्तमानार्थक्रियावृत्तेर्धातोस्तिबादयः प्रत्यया भवन्ति ॥ एषां संज्ञा लट् ॥ ___ (सुबोधिनी)-वर्तमाने तिप् तस् अन्ति, सिप् सम् थ, मिप् वस् मस्, ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥ वर्तमान इति व्यापारे इति शेषः । व्यापारः क्रिया । सा च धातोर्वाच्या । सा त्रिविधा । अतीतानागतवर्तमानभेदात्। तत्र वर्तमानक्रियावृत्तेर्धातोस्तिबादयो भवन्ति । ते च द्योतकाः। वर्तमानाक्रयाया धातुनैवोक्तत्वात् । याद तु सद्य आदिरित्यतः 'काले' इत्यनुवर्तते वर्तमाने काले वाच्ये तिवादय इति व्याख्यायते तदा तिबादयो वाचकाअपि भवन्ति। कालस्य धातुनाऽभिहितत्वात् ॥ अथ को वर्तमानः । प्रारब्धापरिसमाप्तो वर्तमानः। भूरस्तीत्यादौ कथं वर्तमानादिःप्रारब्धापरिसमाप्तत्वाद्यभावात्। उच्यते, सृष्टिसंहारप्रतिप्रामाण्यस्वीकर्तृणां मतेत्राप्यास्त वर्तमानत्वम् । कल्पाद्रौ प्रारब्धायाः स्थितेरपरिसमाप्तत्वात् । तस्थुः पर्वताभविष्यतिभूरित्यादौ त्वतीतानागतकल्पावादाय भूत भविष्यत्ते बोध्ये। क्रियाफलयोर्वाचको धातुः। कालः सङ्ख्या । कारकं चाख्यात र्थः । तत्र तिवादित्वेन कालोऽर्थः।तिप्तस्त्वादित्वेन एकत्वद्वित्वबहुत्वरूपाः संख्यार्थाः। आत्त्वेन भावकर्मणोरर्थः। आत्वेन पत्वेन च कर्थः । तत्र फलस्य कर्मण्यन्वयः। फलाश्रयस्य कर्मत्वात् । व्यापारस्य कर्तर्यन्वयो धातूपात्तव्यापाराश्रयस्य कर्तृत्वात् । संख्यायास्तु करि प्रत्यये कर्तर्यन्वयः । कर्मणि प्रत्यये कर्मण्यन्वयः । कालस्य क्रियायामन्वयः ।