________________
[ आख्याते भ्वादयः ]
टीकाद्वयोपेता |
(५)
कर्मणि प्रयुक्ते । ओदनः पच्यते । ओदनौ पच्येते । ओदनाः पच्यन्ते । अप्रयुक्ते । पच्यते । पच्येते । पच्यन्ते । पं तु कर्मणि नास्ति । युष्मदर्थे कर्तरि प्रयुक्ते । वं `पचसि । युवां पचथः। यूयं पचथ । त्वं पचसे । युवां पचेथे । यूयं पचध्वे । अप्रयुक्ते । पचसि । पचथः । पचथ । पचसे । पचेथे । पचध्वे । युष्मदर्थे कर्मणि प्रयुक्ते । त्वं । दुःखी क्रियसे रागैः। युवां दुःखिनौ क्रियेथे । यूयं दुखिनः क्रियध्वे । अप्रयुक्ते । क्रियसे क्रियेथे। क्रियध्वे । अस्मदर्थे कर्तरि प्रयुक्ते । अहं पचामि । आवां पचावः । वयं पचामः। अहं चचे।आवां पचावहे। वयं पचामहे । अस्मदर्थे कर्मणि प्रयुक्ते । विरागैः सुख्यहं क्रिये । आवां क्रियावहे। वयं क्रियामहे । अप्रयुक्ते । क्रिये । क्रियावहै । क्रियामहे । त्वया पच्यते । मया पच्यते इत्यत्र युष्मदाद्यर्थे आख्यातस्य विधानाभावान्न मध्यमोत्तमौ प्रथमातिक्रमणे कारणाभावात्प्रथम एव ॥ नन्विह भवान्पचत्वित्यत्र मध्यमः प्राप्नोति भवद्युष्मच्छब्दयोरेकार्थत्वादिति चेन्न ; तयोरर्थभेदात् । अलिङ्गः संबोधनाविषयश्च युष्मदर्थः, भवदर्थस्तु लिङ्गवान्, न च संबोधनैकविषय इति । त्वद्रूपः त्वत्कल्पः त्वत्तरः पचसि । मद्रूपः मत्कल्पःमत्तरः पचामीत्यत्र तदादेर्विशेषणत्वेनाकर्तृत्वात्, युष्मदस्मदर्थस्यैव कर्तृत्वात्; मध्यमोत्तमौ भवतः । अतित्वं प्रियत्वं पचति । अत्यहं प्रियाहं पचतीत्यत्र पूर्वपदान्यपदार्थयोः प्राधान्येन कर्तृत्वात् युष्मदस्मदर्थयोर्गौणत्वेन कर्तृत्वाभावात्, न मध्यमोत्तमौ । एवमत्वं त्वं संपद्यते त्वद्भवतीत्यादावपि च्व्यन्ते हि सङ्घीभवन्ति ब्राह्मणा इत्यनुरोधेन प्रकृतेः कर्तृत्वम् । विकृतेः कर्तृत्वे तु सङ्घीभवति ब्राह्मण इति स्यात् । अत्रापि युष्मदस्मदर्थयोः विकृतित्वेनाकर्तृत्वेनाकर्तृत्वम् । तदुक्तम् ॥ " यदा च्व्यर्थे विनिर्देश्ये भवतो युष्मदस्मदी । द्वयोरपि तयोर्योगे न धातोर्मध्यमोत्तमौ ॥ १ ॥ प्रकृतेर्विकृतेर्वाऽपि कदा प्रतिपादने । वाचकः प्रकृतेः संख्यां गृह्णाति विकृतेर्न तु ॥ ३ ॥" अत एव - मृद् घटा भवन्ति ओदनस्तण्डुला भवन्ति इति प्रयुज्यते, तिवादिभिः सह एकोऽर्थो येषां ते तिबाद्येकार्थेषु तिवादीनां यः कर्त्रादिरित्यर्थः । स एव कर्त्रादिरर्थो नामादीनामित्यर्थः । तिवाद्येकार्थेष्विति किम् ? त्वां पश्यति । त्वया क्रियते । तुभ्यं ददाति ॥
(तत्त्वदी०) - नाम्नि चति । अत्र'आद्भुवि' इत्यादेः कर्मणीति कर्तरीति चानुवर्तते । पाच्छन्दावनुवृत्तौ च सप्तम्या विपरिणभ्येते ॥ तिबाद्येकार्थेष्विति ॥ तित्रादिभिरेकार्थास्तेषु यथासंख्यं दर्शयति नाम्नि प्रयुज्यमाने चादित्यादिना ॥ ननु भागैरित्युक्ते कथं त्रय एव भागा लभ्यन्ते, नं चत्वारः, पञ्च वेति चेत्सत्यम् । कपिञ्जलालम्भन न्यायेनेति गृहाण । तथाहि - 'कपिञ्जलानालभेत' इतिं वाक्ये कपिञ्जलानिति बहुवचनेऽपि एकस्मिन् द्वयोश्च बहुत्वाभावात् प्रथमबहुत्वस्य त्रिषु लाभात् त्रय एव गृह्यन्ते, न तु चतुःपञ्चादय इति । एवमिहापि बोध्यम् । भवान् पचतीत्यत्र तु युष्मद्भवदर्थयोः समार्थत्वाभावान्न मध्यमः । तथाहि अलिङ्गः संबोधनविषयश्च युष्मदर्थः । भवदर्थस्तुं लिङ्गवात्र च संबोधनैकविषयः । त्वत्तरः पचसि मत्तरः पचामीत्यादौ तंरादेर्विशेषणत्वादप्रधानत्वाद