________________
(४)
सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः ] परतोऽन्यत् ॥ उक्तनिमित्तहीनाद्धातोःपा (सुबोधिनी)-परतोऽन्यत् ॥ परस्मादिति परतः। तत्रादिविभक्त्यर्थे इति पञ्चम्यन्तात्तम् । परत्वस्य सावधित्वादवध्यपेक्षायाममुदात्तडित इत्यादयः संवध्यन्ते । अन्यत्वस्यापि सापेक्षत्वादादुभे चेति संबध्यते । अनुदात्तेतो ङितो निर्विशादर्जितः स्वरितेतश्च धातोरन्यस्माद्धातोः परतः केवलं पं भवति ॥
(तत्त्वदी०)-परतोऽन्यदिति।परस्मादिति परतः । तगादिविभक्त्यर्थे इति पञ्चम्यन्तातस्, परत्वस्य सावधित्वात् । अवध्यपेक्षायामनुदात्तङित इत्यादयः सब यन्ते । अन्यत्वस्यापि सापेक्षवादादुभे वेति संबध्यते इत्याशयेनाह-उक्तनिमित्तेत्यादि।उक्तानि निमित्तानि तैीँनात् रहितादित्यर्थः तथा च-अनुदात्ततो ङितो निविशादेः जितः स्वरितेतश्च धातोरन्यस्मात् भवतीत्यर्थः अनुदात्तेत इत्यादि किम् । एधते । प्रवर्तते ॥
नव पम् ॥ तिबादीनामाद्यानि नव वचनानि पसंज्ञानि॥ पराण्यात ॥ पराणि नव वचनानि आत्मने पदानि स्युः॥ (सुबोधिनी)-नव पम् ॥ पराण्यात् ॥ प्रत्येकमष्टादशवचनात्मका दशविधा आख्याता उक्तास्तेषां नवनववचनानां संज्ञाविधीयते।तिवादीनामाद्यानि नव वचनानि पसंज्ञानि पराणि नवात्सञ्ज्ञानिं । पराणीति परशब्देन नवपमित्राद्यानीति लभ्यते ॥
(तत्त्वदी०)-नव पमिति ॥ अत्र पराण्यादित्यत्र परशब्देनाद्यानीति लभ्यते। अत्रं पाच्छब्दयोरेव संज्ञात्वं, न तु ताभ्यामवयवभूताभ्यामाक्षिप्तयोः परस्मैपदात्मनेपदशब्दयोरवयविनोः 'दादेःपे' "णित्ये' 'आद्भुवि' इत्यादौ पाच्छब्दयोरेवावृत्तिदर्शनाल्लाघवाच । न : परगामिक्रियाफलात्मगामिक्रियाफलरूपान्वर्थलाभो, न पाच्छब्दाभ्यामिति वाच्यम्, विवक्षयैतल्ला गत्। "कमलवनोद्घाटनं कुर्वते ये" इत्यत्रात्मगामिफलाभावेऽप्यादर्शनात् । याजको यजति यजमानो यजेतेत्यत्र परगामित्वात्मगामित्वलाभस्तु शिष्टाचारात्, तस्मादत्र न समुदायाक्षेपः ।। . नानि च युष्मदि चास्मदि च भागैः॥ तिवाद्येकार्थेषु नामादिखूपपदेष्वेते प्रत्ययास्त्रिभिर्भागैः स्युरात्पयोः। नाम्नि प्रयुज्यमाने चादप्रयुज्यमाने प्रथमः । युष्मदि मध्यमः । अस्मद्युत्तमः ॥
(सुबोधिनी)-नानि च शुष्मदि चास्मदि च भागैः ॥ अत्र पाच्छब्दावनवृत्तौ सप्तम्या विपरिणमयितव्यौ । आद्धवीत्योदः कर्मणि करीति चानुवर्तते। नामादिशब्देन विभक्त्यन्तं गृह्यते प्रकरणात्तिबादयो दशविधा आग्याता गृह्यन्तोनामाद्यर्थे कर्तरि कर्मणि च विहितानां तिवादीनां धातोर्यानि नव वचनानि तानि त्रिभिर्भागैर्विभज्य प्रयोक्तव्यानि । यथासंख्येन नामार्थे कर्तरि प्रयुक्तेऽप्रयुक्ते च प्रथमो भागः प्रयोक्तव्यः । प्रयुक्त । स पचति । तौ पचतः। ते पचन्ति । म पचते । तौ पचेते। ते पचन्ते । अप्रयुक्ते । पचति । पचतः । पचन्ति । पचते । पचेत । पचन्ते । नामार्थे