________________
[ आख्याते भ्वादयः ]
टीकाद्वयोपेता ।
(३)
आदनुदात्तङितः ॥ अनुदात्तेतो ङितश्च धातोरात् ॥ उमनेपद (सुबोधिनी) - आदनुदात्तङितः ॥ अनुदात्तश्च ङ् च अनुदात्तङनै तावितौ यस्य धातोः सोऽनुदात्तङित्तस्मात् । द्वन्द्वान्ते श्रूयमाण इच्छन्दः प्रत्येकमभिसंबध्यते । द्वन्द्वे ऽल्पस्वरेति ङस्य पूर्वनिपातो न, हसान्तत्वात् । ण्यायन णित्यादिज्ञापकसिद्धं हि तत् । ज्ञापकसिद्धं न सर्वत्रेति 'देवतेदमर्थे' इत्यादिना च तस्यानित्यत्वाच्च । अनुदात्तेतो ङितश्व धातोरात्मनेपदं भवति । एधते । शेते । अन्यपदार्थत्वेन धातोराश्रयणं किम् । अगमत् अशिश्रियत् । ङाङोर्डित्त्वेऽपि धातुत्वाभावादान्न ॥
(तत्त्वदी ० ) - आदनुदात्तङित इति ॥ आत् अनुदात्तश्च ङ् च अनुदात्तङौ तावितौ यस्य स तथा तस्मात् । द्वन्द्वान्ते श्रूयमाण इच्छन्दः प्रत्येकमभिसंबध्यते इत्यत आह-आदनुदात्तेतो ङितश्चेत्यादि । अत्र ड् इत्यस्यास्वरत्वादल्पस्वरस्येत्यप्रवृत्तेः परनिपातः द्वयोः स्वरान्तयोर्मध्ये ऽल्पस्वरस्य ग्रहणात्, देवतेदमर्थे इत्यादिना तस्यानित्यत्वाच्च । आपत्योरेव सर्वत्र संज्ञात्वेन दर्शनात्, नामैकदेशेन सर्वनाम लक्ष्यत इति न व्याख्येयम्, अन्यपदार्थत्वेन धातोराश्रयणात् । अगमत् अशिश्रियदित्यत्र ङाङोर्डित्त्वेऽपि धातुत्वाभावादान्न । अत्र विधेयस्य पश्चाद्ग्रहणस्य युक्तत्वेऽपि विपरीतकरणात्त्वचिदन्यत्राप्यात् । तेन को जानीत इत्यादि सिद्धम् ॥
ञित्स्वरितेत उभे ॥ ञितः स्वरितेतश्च धातोरात्पे स्तः ॥
3
पैत्र
( सुबोधिनी) - ञिस्त्वरितेत उभे ॥ ञ् इद् यस्य स ञित् स्वरित इद्यस्य स स्वरितेत् ञिच्च स्वरितेच्चानयोः समाहारः ञित्स्वरितेत्तस्मात् उभयपदम् । आत्तु संनिहितमेव, पंतु 'णित्' इत्यतः परामृश्यते ॥
( तत्त्वदी ० ) - ञित्स्वरितेत उभे इति । ञ इत् यस्य स ञित् स्वरित इत्यस्य स स्वरितेत् ञिच्च स्वरितेच्चानयोः समाहारो ञित्स्वरितेत् तस्मात् । उमे आत्प इत्यर्थः । यथासंख्यमत्र न शङ्कनीयं,तस्य ज्ञापक्तसिद्धत्वेनासार्वत्रिकत्वात् । अथात्रानुबन्धद्वयं न कर्तव्यं ञित्स्वरितेत्सु स्वरितेतो वा ञित एव विधेयः। तथा चः ञित उभे स्वरितेत उभे इति वा सूत्रणीय मिति चेन्न, डुकृञ् इत्यत्र डुकृञ्अ इति करणे गौरवात्, रुधिरं इत्यत्र रुधिर र इति करणे चस्वरित ञित इति कर्तुं युक्तं `लाघवात् ॥ अत्र केचित् - अत्र आत्पशब्दाभ्यामवयवाभ्यामात्मनेपदपरस्मैपदसंज्ञ गृह्येते । ते चान्वर्थे तथाहि--आत्मने कर्त्रे फलबोधकं पदमात्मनेपदम् । परस्मै कर्त्रे फलबोधकं पदं परस्मैपदम् । तेन कर्तृगामिनि फले आत्मनेपदं परगामिनि फले परस्मैपदमित्याहुः, तन्न, उमेग्रहणस्य वैयर्थ्यापत्तेः । तथाहि-ञित्स्वरितेत एतावदेव सूत्रमस्तु आदिति चानुवर्तनीयम् । तेनकर्तृगामि निफले आत्, अन्यत्र परतोऽन्यदिति पम्। किंच करोति कुरुते वा घटमित्यत्र घटनिर्माणफलस्य कुलालादन्यगामित्वस्यासंभवात् सृष्टिं चकार चक्रे वा ईश्वर इत्यत्र जगन्निर्माणफलस्य ईश्वरेऽसंभवाच्च । यजधातौ तु स्वर्गकामो यजेत होतर्यजेति श्रुतिभ्यां यजमानत्र्त्विजोरात्पप्रयोगनियमः, अन्यत्र तु यथेष्टं प्रयोक्तव्यम् ॥