________________
(२)
सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः] प्रकृत्यर्थस्याद्रव्यकादेराख्यातार्थकर्तृकमणोरनन्वयात्, कारकाणां क्रिययैवान्वयनियमात् । पचतीत्यत्र एकेन एकाश्रयिकायां क्रियायां बोधितायामपरेणान्याश्रयायाः क्रियाया बोधनस्याशक्यत्वात् । प्रथमस्य समासप्रत्यययोरितिलोपेतु तदर्थस्यानवबोधाच्च कर्तृद्वयादिबोधाकाङ्क्षायां यःघटः इत्यादेरन्याय्यत्वात्।।
भ्वादिः॥ क्रियावाची भ्वादिर्धातुसज्ञकः स्यात् ॥ (सुबोधिनी)-भ्वादिः॥ भवनं भः क्रियासामान्यम् । आदत्ते ग्राहयत्यर्थमित्यादिः।अन्तर्भावितञ्यर्थः। यद्वा,आदीयते गृह्यतेऽर्थोऽनेनेति आपूर्वादाञःकिप्रत्ययः शब्द इति यावत् । भुवः क्रियासामान्यस्य आदिर्वाचकः शब्दो धातुसज्ञो भवति॥एवं सति 'हिरुक्, नाना' इत्यादावव्यये, 'वभूव, बभूवे' इत्यादावाख्यातान्ते चातिव्याप्तिस्तेपामाप क्रियावाचकत्वात्। अतोभ्वादिरित्यावर्त्य भूरादिर्यस्येति बहुव्रीहियाख्येयः। अत्रादिशब्दो व्यवस्थायाम् । तेन भूशब्दादारभ्य ये पठितास्ते ग्राह्याः। तेन क्रियावाचित्वे सति भ्वादिगणपठितत्वं धातुत्वम् । नामधातूनां सधातुरिति वचनादातुत्वम् । सौत्रास्तु गणे एव पाठयाः। का पुनः क्रिया ? उच्यते । करोत्यर्थभूता उत्पादनापरपर्याया उत्पत्त्यनुकूलव्यापारसन्तानरूपा भावनैव क्रिया । नन्वस्तिभवतिद्यतिषु क्रियावाचित्वमव्याप्तम्, नहि तत्रोत्पादना प्रतीयते, उत्पत्तिर्हि आद्यक्षणसम्बन्धस्तदनुकूलव्यापारश्चोत्पादना, तदनुभवश्वास्त्यादिभ्यो नास्त्येव । उच्यते । अस्तीत्यादेः स्वरूपधारणं करोतीत्यर्थः । धारणं चोत्तरकालसंबन्धः ॥ क्रियावाचीति किम् । याः पश्यसीत्यादौ धातुत्वं मा भूत् । सति हि तस्मिन्नातो धातोरित्यालोपः।
(तत्त्वदी०)-भ्वादिरिति । भवनं भूः क्रिया। आदीयतेऽर्थोऽनेनेत्यादिः शब्दः। आपर्वात् दाञः किः। तथा च भूशब्दः क्रियावाचक आदिशब्दः प्रकारवाचक इत्यर्थः, एवं सति हिरुक् वर्जने इत्यव्ययेऽतिव्याप्तिः, तस्यापि वर्जनरूपक्रियावाचकत्वात् । अतोभ्वादिरित्यावर्तनीयम् । अत्रादिशब्दो व्यवस्थार्थः । तथा च-भूशब्दमारभ्य ये पठितास्ते धातुसंज्ञाः । एवं च-क्रियावाचकत्वे सति भ्वादिगणपटितत्वं धातुत्वमिति लक्षणम् ।वादावव्ययेऽतिप्रसङ्गवारणाय सत्यन्तम्, तावन्मात्रीपादाने च हिरुगादावतिव्याप्तिः । अत्राहुः, क्रियावाचित्वलाभायावृत्तिन कर्तव्या, न च यादावतिव्याप्तिः, या इत्यस्य लाक्षणिकत्वेनैवाग्रहणात, यदस्त्यदाद्यत्वम् आपि वेति सिद्धेः, वेत्यव्ययस्य च धातुत्वेऽप्य निष्टादर्शनात् । अथ धातुत्वे विकल्पादावपिगन्धनादाविव वातीति रूपमापद्यतेति चेत् ? शृणु तस्या व्ययत्वेन अव्ययाद्विभक्तिरिति तिबादेलकोऽनिवार्यत्वात् । एवं च सूत्रे विभक्तिग्रहणस्य सार्थक्यम् ।न स्यादेरिति नोक्तम् । सर्वादेरुभशब्दस्य तु उभ उभे इत्यत्र पठितत्वेऽपि उभकावित्याद्यर्थतया सर्वादिपाठस्योक्तत्वेन धातुत्वबाधनात्, धातुत्वे हि स्याद्यनुत्पत्तेरुभकावित्यस्यासंभवात् ॥ अथ द्योदिवावित्यत्र स्वर्गवाचकस्यधातुत्वं स्यादिति वाच्यम् , न; तत्रोदितः पाठेनानुदितस्तस्याग्रहणात् । सानुबन्धकग्रहणेनातदनुबन्धकस्येत्युक्तेरिति । का पुनः क्रिया भावनैवेति गृहाण । तथाहि-अभवतो गमनादेरक्रियमाणतया भवतश्च घटादेः क्रियमाणतया भवत्यर्थकर्तुः करोतिकर्मत्वम् । तथा च करोत्यर्थकर्तुभवितृप्रयोजकतया भवतेरुत्पत्त्यर्थात्प्रयोजकव्यापारो निरुत्पद्यमानः करोत्यर्थमवलम्बते ।