SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ MAIN सिद्धान्तचन्द्रिका। सुबोधिनी-तत्त्वदीपिका-टीकाहयोपेता। (उत्तरार्धम् ) धातोः ॥ इदमधिक्रियते ॥ सुबोधिनी। सार्वीयं सच्चिदानन्दं नामनामं जगत्प्रभुम् ।। सिद्धान्तचन्द्रिकाख्यातवृत्तिश्च क्रियतेतराम् ॥ १॥ धातोः॥ अधिकारोऽयं प्राड़ नानो य इत्यतः। किमर्थोऽयमधिकारः। उच्यते, ऊरीकरोति, शुक्लीभवति, सहार्य: स्यादित्यादौ ऊर्यादिच्च्यन्तयोर्धातोः प्राक् प्रयोगस्य नियतत्वेन विशिष्टात् प्रत्ययोत्पत्तिर्यथा न स्यात् । अन्यथा अद्वित्वयोर्दोषो दुवारः स्यादित्यधिकारः। तत्त्वदीपिका। प्रणम्य श्रीपतिं वाणी नारायणमनामयम् । सिद्धान्तचन्द्रिकाख्यातव्याकृतिरुच्यतेऽधुना ॥१॥ धातोरिति ॥ अधिकारोऽयमित्याह । इदमिति ।। सूत्रमिति विशेष्यं पदं वा । नाम्नो य इत्यतः प्रागविकारो बोध्यः । अधिकारफलं तु ऊरीकरोति शुक्लीभवतीत्यादौ च्च्यन्त्रस्य धातोः प्राक् प्रयोगनियमेन तत्सहिताद्धातोः प्रत्ययोत्पत्तिर्यथा न स्यात्, अन्यथाऽद्वित्वयोदोषो दुर्वारः स्यात् । न च नामव्यावृत्तिरेव फलमिति वाच्यम्, ततः विधानेनैव तद्बाधनात् । सिबन्ततिबन्तव्यावृत्तिरपि न फलं
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy