________________
[ आख्याते म्वादयः ] टीकाद्वयोपेता। स्यैव न्याय्यत्वात् । 'तत्यातपत्रं बिभ्रांबभूवे । 'विभावरीभिर्बिभरांबभूविरे' इत्यादौ च तथा दर्शनात् । यद्यपि भूकारस्य दीर्घाकारकरण निरर्थक तथाऽप्यानचेत्याद्यर्थम् ॥ .
ह्रस्वः॥ पूर्वसंबन्धिनो दीर्घस्य हस्वः॥ (सुबोधिनी)-द्वस्वः॥ पूर्वस्य स्वरस्य ह्रस्वः स्यात् ॥ बभूवेत्यत्र तु आभ्वोरिति कृतस्य दीर्घस्य ह्रस्व इत्यर्थः ॥
झपानां जबचपाः॥ पूर्वस्य झपानां जबाश्चपाः स्युः॥ झढधघभानां जडदगबाः खफछठथानां चटतकपाः स्युः॥ (सुबोधिनी)-झपानांजबचपाः॥ वो वर्येणेति स्थानक्याद् आदेशा भवन्ति। भुवो ॥भुवो वुगागमो णादोस्वरे। बभूव, बभूवतुः, बभूवुः॥ (सुबोधिनी)-भुवो वुक् ॥ कृताकृतप्रसङ्गित्वेन नित्यत्वात्प्रथमं वुक्,ततो दुको 'धात्ववयवत्वाद्गुणवृद्धी न ॥
(तत्त्वदी०) भुव इति ।। वुको धात्ववयवत्वाद् गुणवृद्धी न । न च प्रथमं गुणवृद्धिप्रसङ्ग इति वाच्यम् । कृताकृतप्रसङ्गित्वेन नित्यत्वात्प्रथमं तस्यैव प्रवृत्तेः ।।
कादेर्णादेः॥ कृस् भृ व द्रु स्तु श्रु सु इत्येतेभ्यः परस्य वसादेर्णादेरिण न भवति, अन्यस्मात् भवतीति नियमादिट् स्यात् ॥ बभूविथ, बभूवथुः,बभूव । बभव,बभूविव,बभूविम।बलिबलवान् बभूव। (सुबोधिनी) क्रादेर्णादेः । डुकृञ् करणे' 'कृञ् हिंसायाम्' इत्युभौ गृह्यते । सृ गतौ । भृ भरणे। डुभृञ् धारणपोषणयोरित्युभौ । वृङ् संभक्तौ वृञ्वरणे इत्युभौ । द्रु गतौ । ष्टुञ् स्तुतौ । श्रु श्रवण । सु गतौ । एते कादयः । कृ सृ भृ इति त्रयाणामनुदात्तत्वान्नैकस्वरादिति प्रकृत्याश्रये इनिषेधे प्राप्ते वृद्धृञोस्तूदात्तत्वात कित इति प्रत्ययाश्रये इनिषेधे प्राप्ते द्रुस्त्वादीनां चतुर्णी स्वरान्तत्वात् स्वरान्तादत्वतश्चेतीविकल्पे प्राप्ते च नियमः ॥
( तत्त्वदी०) क्रादेरिति ॥ डुकृञ् करणे । सृगतौ । डुमृञ् धारणपोषणयोः । वृञ् वरणे । द्रु गतौ । ष्टुञ् स्तुतौ । श्रु श्रवणे । स गतौ एते कादयः ॥ नियमादिति ॥ विध्यभावादिडभावे सिद्धे सत्यारम्भो नियमाय भतीति नियमः ॥
आशिषि यात् यास्ताम् यासुस् यास् यास्तम् यास्त यासम् यास्व यास्म सीष्ट सीयास्ताम् सीरन् सीष्ठास् सीयास्थाम् सीध्वम् सीय सीवहि सीमहि ॥ धातोराशिषि यादादयः ॥ एषां संज्ञा लिङ् ।