________________
( १६ )
सिद्धान्तचन्द्रिका |
[ आख्याते भ्वाददः ]
(सुबोधिनी ) - आशिषि ॥ यात् यास्ताम् यासुस्, यासू यास्तम् यास्त, यासम् यास्व यास्म, सीष्ट सीयास्ताम् सीरन्, सीष्ठास् सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि ॥ धातोर्यादादय आशीर्वादे वाच्ये । यद्वा । प्रार्थ्यमानक्रियावृत्तेर्धातोरिति वा ॥
( तत्त्वदी० ) आशिषीति ॥ स्वस्य परस्य चेष्टार्थस्याआशंस्नमाशीः । तस्यां वाच्यायां यादादयः । यद्वा प्रार्थनप्रक्रियावृत्तद्धातोर्यादादयः ॥
आशीर्यादादेः पं कित् ॥ भूयात् भूयास्ताम् भूयासुः । भूयाः, भूयास्तम् भूयास्त । भूयासम् भूयास्व, भूयास्म । स श्रीमान् भूयात् ॥ (सुबोधिनी ) - आशीर्यादादेः पं कित् ॥ ननु ङित्त्वेनैव गुणवृद्धि निषेधः सिद्ध इति चेन्न । इज्यात्सुप्यादित्यादौ सम्प्रसारणार्थं जागर्यादित्यादौ जागतेरिति गुणार्थं च किचनम् ॥
( तत्त्वदी ० ) - स श्रीमानिति । एकतदभिन्नाश्रया श्रीमदनुल्ला भावनाशंसना । आशंसाविषया भवनक्रिया वेति बोधः ॥
श्वस्तने ता तारौ तारस तासि तास्थस् तास्थ तास्मि -तास्वस तास्मस् ता तारौ तारस तासे तासाथे ताध्वे ताहे
तव तास्महे ॥ श्वोभाविन्यर्थे तादयः ॥ एषां संज्ञा लुट् ॥
आज अश
(सुबोधिनी ) - श्वस्तने ॥ ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस्, ता तारौ तारस्, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे ॥ आगामिनि दिने श्वोऽव्ययम् । श्वोभवः श्वस्तनः कालस्तस्मिन्वाच्ये धातोस्तादयः । यद्वा । श्वस्तने व्यापारे वर्तमानाद्धातोरिति वा ॥
(तत्त्वदी ० ) - श्वस्तने इति ॥ अद्यतनदिनातिरिक्तागामिनि दिने श्वःशब्दो वर्तते । तत्र भवः श्वस्तनः कालस्तस्मिन्वाच्ये धातोस्तादयः ।
सिसुतासीस्यपामिट् ॥ भविता भवितारों, भवितारः । भत्रि तासि, भवितास्थः, भवितास्थ । भवितास्मि, भवितास्वः, भवि तास्मः । श्वो भविता राज्यभारः कुमारस्य ॥ (सुबोधिनी) - सिसतासीस्यपाभिट् ॥ धातोरित्यनुवृत्तम् ॥
( तत्त्वदी ० ) - वो भवितेति ॥ चिरागामिदिनाधारा एका राज्यभाराभिन्नाश्रयकाऽऽगामिकालमाविनी आत्मधारणानुकूला क्रियेत्यर्थः ॥
त्यादौ भविष्यति स्यप् ॥ धातोर्भविष्यतेि काले स्यप्रत्ययों भवति तिबाद्यष्टादशसु परतः ॥ एषां संज्ञा लट ॥ भविष्यति,