________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता । भविष्यतः, भविष्यन्ति । भविष्यसि, भविष्यथः, भविष्यथ ।
भविष्यामि, भविष्यावः, भविष्यामःाकल्की धर्मपालको भविष्यति। (सुबोधिनी)-त्यादौ भविष्यति स्यप् ॥ तिरादिर्यस्य तस्मिन् भविष्यत्यर्थे वर्तमानाद्धातोः स्यप्प्रत्ययो भवति त्यादौ परे। इति भविष्यत्त्वं द्योत्यम् । यद्वा धातोः स्यब्भविष्यति काले वाच्ये तिवादौ परे । भविष्यतीति शत्रन्तात्सप्तमी॥
(तत्त्वदी०)-त्यादौ भविष्यतीति ॥ ति तिर आदिर्यस्य स त्यादिस्तस्मिन् । स्यविशिष्टेत्यादिवाच्यं भविष्यत्त्वमिति द्योत नाह-धातोरित्यादि ॥ शतृशानयोरपि तिप्तेवदतिदेशात्स्यप् । तेन यक्ष्यन् यक्ष्यमाण इत्यादि सिद्धम् ॥
स्यप क्रियाऽतिक्रमे क्रियाया अतिक्रमे कुतश्चिदनिष्पत्तौ सत्या स्यप्प्रत्ययो भवति दिमादिषु परतः ॥ एषां संज्ञा लङ्॥ यदि सुवृष्टिः सुराज्यं चाभवि यत् तदा सुभिक्षमभविष्यत् । अभविष्यत्, अभविष्यताम् अभविष्य ! अभविष्यः, अभविष्यतम् , अभविष्यत। अभविष्यम् , अभविष्या , अभविष्याम॥ (सुबोधिनी)- स्यप् क्रियातिक्रमे ॥ क्रियाया अतिक्रमः अनिष्पत्तिः आसिद्विरित्यर्थः । भविष्यतीत्यनुवृत्तम् । उत्तरसूत्राद्भते इति च । भूते भविष्यति चार्थे वर्तमानाद्धांतार्दिबादिर्भवति । क्रियाऽनिष्पत्तौ गम्यायां दिवादौ च परे स्यप् भवति । यद्वा-धातो ते भविष्यति चार वाच्ये दिवादिर्भवति तस्मिश्च परे स्यपू क्रिया:तिक्रमे गम्यं ।।
(तत्त्वदी०)-स्य क्रियाऽतिक्रम इति ॥ क्रियाया अतिक्रमः अनिष्पत्तिः असिद्धिरिति यावत् । भूतत्वं भविष्यत्वं चानुक्तम पे परिशेषाल्लब्धम् ॥ यदि सुवृष्टिरिति ॥ सुवृष्ट्याश्रयात्मधारणानुकूला भूता भविष्यन्ती वा स क्रिया तदभावप्रयुक्तसुभिक्षाश्रयात्मधारणानुकूलायाः क्रियाया असिद्धिः ॥ क्रियाऽतिक्रमे किम् ? नुवृष्टिरभूत्, सुवृष्टिर्भविष्यति, सुभिक्षमभूतु, सुभिक्षं भविध्यति ॥ दिबा दिषु किम् । कृष्णं नमेच्चेत्सुखं यायात् । कादिकमाख्यातवाच्यम् । कालस्तु धातोराख्यातस्य वाऽर्थः । स्यपस्तु विकरणत्वादनर्थकत्वमेव । एवं त्यादावपि सिरपि । अत्र त्यादौ भविष्यतीत्यतः स्यबनुवृत्तिस पवे स्यग्रहणं कळदावपि विधानार्थम् । तेन करिष्यन् करिष्यमाण इत्यादि सिद्धम् ॥
भ्रते सिः ॥धातोर्भूतमात्रे काले सिः प्रत्ययो भवति दिवादिषु परतः॥ एषां संज्ञा लुङ् ।। (सुबोधिनी )-भूते सिः॥ अभूत् इति भूतः । अकर्मकत्वात्कर्तरि क्तः । भूतसामान्यार्थे वर्तमानाद्धातोदिबादिर्भवति । यदा-धातोः परः भूतसामन्ये वाच्ये दिवादि