________________
(१८)
सिद्धान्तचन्द्रिका। , [ आख्याते भ्वादयः ] भवति तस्मिंश्च परे सिप्रत्ययो भवति। सिसहितस्य दिबादेर्भूतसामान्योऽर्थः । अवादिसहितस्य तु भूतविशेषोऽनद्यतनोऽपरोक्षोऽर्थः ॥ ___ (तत्त्वदी०)-भूते सिरिति ॥ अभूदिति भूतः । अकर्मकत्वात्यत्तरि क्तः । भूतसामान्ये सिरित्याह भूतमात्र इति । तथा च सिविशिष्टदिबादेर्भूतसामान्योऽयः । अबादिविशिष्टस्य तुं भूतविशेषानद्यतनोऽपरोक्षः भूतानद्यतनपरोक्षे णबादिः ॥
दादेःपे ॥ पे परे अपिदाधास्थाइणभूपिबतिभ्यः परस्य सेर्लोपः॥ (सुबोधिनी)-दादेपे ॥ दा आदिर्यस्य सदादिस्तस्म त्सेर्लोपः पे परे॥डुदा दाने, दाण् दाने, दो अवखण्डने, इत्येतेषां दाशब्देन ग्रहणम् । दाप् लवने, दैप शोधने, दे पालने, एषां तु लक्ष्यानुसारान्न ग्रहणम् ॥ दुधाञ् धारणपोषणयोः, ष्ठा गतिनिवृत्तौ । इणू गतौ । भू सत्तायाम् । पा पाने ॥
(तत्त्वदी०)-दादे पे इति ॥ दा आदिर्यस्य दादिस्तस्य । अपिदिति दाप् लवने, दै शोधने, एतौ विहाय एतयोस्त्यागस्तु लक्ष्यानुसारादेव । डुधाञ् धारणा षणयोः, ष्टा गतिनिवृत्तौ, इण् गतौ, भू सत्तायाम् , पा पाने, एभ्यः सेर्लोपः । लोपो हस्वादित्यत लोपोऽनुवर्तते ॥ .
(शाछासाघ्राधेटा वा) (सुबोधिनी)-शाछासाघ्राधेटां वा ॥ एभ्यः सेर्वा लोपः ॥ शो तनूकरणे । छो छेदने । षो अन्तकणि । घ्रा गन्धोपादाने । धेट पाने ।।
(तत्त्वदी०)-नो वेत्यतो व्यवस्थितत्वानुवृत्तेश्शादीनां वा । शे तनूकरणे, छो छेदने, षो अन्तकर्मणि, घ्रा गन्धोपादाने, धेट पाने, एषां सेर्वा लोप इत्यर्थः ॥
(भुवः सिलोपेऽयङ्लुकि गुणो न ) अभूत , अभूताम् ॥ (सुबोधिनी) भुवः शिलापेऽयलुकि गुणो न ॥ भुवो गुणो न सिलोपे सति ॥ यङि लुकि तु भुवो गुणो भवति सिलोपे ॥ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणमिति परिभाषया गुणनिषेधे प्राप्ते विधिः । अभूत्, अब भोत् ॥ .
(तत्त्वदी० )-भुव इति ॥ 'नानिटि से' इत्यतो नेत्यनुवृत्तेराह -भुव इति ॥ अयङ्लुकीति ॥ यङ्लुकि तु अबोभोदित्यत्र सिलोपेऽपि गुणो भवत्येव ॥
(भुवः सिलोपे स्वरे वुक्) अभूवन् । अभूः, अभूतम् , अभूत । अभूवम् , अभूव , अभूम ॥ (सुबोधिनी)-भुवः सिलोपे स्वरे वुक् ॥भुवो वुगागम स्वरे परे सिलोपे सति (माङि सिरेव)(स्मसहिते दिबादिर्वा) (सुबोधिनी)-माङि सिरेव ॥माशब्दे प्रयुज्यमाने धातोर्दिवादिपरः सिरेव भवति सर्वेषामाख्यातानां विषये । स्मसहिते दिबादिर्वा|स्मोत्तर माङि प्रयुज्यमाने धातोदिबादि । पक्षे भूते सिः। सर्वलकारविषये लङ्लुङावित्यर्थः॥