________________
[ आख्याते भ्वादयः] टीकाद्वयोपेता।
(तत्त्वदी०)माडि सििित ॥ मेऽट इत्यत्र मे इति योग विभज्य सिरिति आवृत्याहमाङीति । सिरेव सिसहितो दिवादिरित्यर्थः । स्मयुक्ते माङि तु विकल्पेन दिबादिःकेवलः सिसहितश्च पक्षाननु भूते सिरित्यनेनैव निर्विहितः पुनः किमनेनेति चेत्सत्यम् । कालान्तरेऽपि विधानार्थमेतत् । तेन माङ्योगे सर्वलकारवि ये लुङेव भवति ॥
मेष्टः॥ माङ्योगेऽटो लोपः॥ मा भवान् भूत् । मा स्म भूत् । मा स्म भवत् ॥ (सुबोधिनी )- मेऽटः लोप इत्यनुवृत्तम्।माशब्दे प्रयुज्यमाने सत्यटो लोपः ॥ ( तत्त्वदी०)-मेट इति॥ने अट इति छेदः । लोप इत्यनुवर्तते ॥ मे किम् । नाभवत् ॥ अट इति किम् । मा प्र भूत् । प्रस्य लोपो न ॥
आमाले ६ १९८३1 9 . (भ्र प्राप्तावात्वान ) भवते । (सुबोधिनी)-भू प्राप्तापात्वान् ॥आद्विद्यते यस्य स आत्वान् । आत्मनेपदीत्यर्थः॥ ( तत्त्वदी०)-भू प्राप्तावात्वानिति ॥ आत् विद्यते यस्य स आत्वान् ॥
आदाथ इः॥ अतः परस्यात आथश्चात इर्भवति ॥ भवेते, भवन्ते। भवसे, भवेथे, भवध्वे । भवे, भवावहे, भवामहे ॥ भवेत, भवेयाताम्, भवरन् । भवेथाः, भवेयाथाम्, भवेध्वम् । भवेय, भवेवहि, भवेमहि ॥ भवताम्, भ ताम्, भवन्ताम् । भवस्व, भवेथाम्, भवध्वम् । भवै, भवावहै, भवामहे ॥ अभवत, अभवेताम्, अभवन्त । अभवथाः, अभवेथाम्, अभवध्वम् । अभवे, अभवावहि, अभवामहि । बभूवे बभूवाते, बभूविरे । बभूविषे, बभूवाथे ॥
(सुबोधिनी.)-आदाथ इः॥अतः इत्यनृवृत्तम् । आच आश्र्च अच्च आदाथ् तस्य । आते आताम् आथे आथाम् इत्येतेषां टिं विहायानुकरणम् । अतः परस्य आत आथश्चाकार इर्भवति ॥ एधेते । एधेथ । ऐवेताम् । एवेथाम् ॥
(तत्त्वदी०)-आदाथ इरिति ॥ आ आदाथ इरिति छेदः । आच्च आथ्च अच्च आदा) तस्य । आते, आताम्, आथे, आयाम् एषाम् आतोऽतः परस्य इर्भवति । आ किम् अन्त्यस्य मा भूत् । तपरः किम् । गाते । अन्तरङ्गत्वादपः सवर्णदीर्घ कृते पुनः सवर्णदीर्घः ॥
नामिनोऽचतुर्णा धो ढः॥ नाम्यन्ताद्धातोः परस्य सीध्वंलुङ्लिटी धस्य ढः॥ (सुबोधिनी) नामिनोञ्चतुर्णा धो ढः॥ नामिन इति धातोविशेषणत्वेन तद•न्तविधिः॥