________________
(२०)
सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः ] (सेटो हलादा) बभूविट्वे-बभूविध्वे।बभूवे, बभूविवहे, बभूविमहे ॥ भविषीष्ट, भविषीयास्ताम्, भविषीरन् । भविषीष्ठाः, भवि. षीयास्थाम्, भविषीढ़म्-भविषीध्वम् । भविषीय, भविषीवाह, भविषीमाहि ॥ भविता, भवितारो, भवितारः। भवितासे, भवितासाथे, भविताध्वे । भविताहे, भवितास्वहे, भवितास्महे ॥ भविष्यते भविष्येते, भविष्यन्ते । भविष्यसे, भविष्येथे, भविष्यध्वे । भविष्ये, भविष्यावहे, भविष्यामहे ॥ अभविष्यत, अभविष्येताम्, अभविव्यन्त । अभविष्यथाः, अभविष्येथाम् , अभिविष्यध्वम् । अभविष्ये, अभविष्यावहि, अभविष्यामाह। अभविष्ट, अभविषाताम् ॥ (सुबोधिनी)-सेटो हलाद्वासेटो हयवरलात्परेषां सीघ्वंलुलिटांधस्य वाढः॥
आतोऽन्तोऽदनतः ॥ आतोऽन्तोऽद्भवत्यकारदुत्तरस्य न॥ अभविषत । अभविष्ठाः, अभविषाथाम् ।।
(सुबोधिनी)-आतोन्तोऽदनतः ॥ अन्ते,अन्तु,अन्ताम् एषां वचनानां टिं विहाय प्राग्भावस्यानुकरणम् । आदिति तु अन्त्यानां संज्ञेत्युक्तम् । आत्संबन्धिनोऽनकारात् परस्यान्तोद्भवति॥ आतः किम् । युवन्ति ॥ अनत इति किम् । एधन्ते ॥ तपरः किम् । गाते ॥
(तत्त्वदी० )-आतोऽन्तोऽदनत इति ॥आत इत्यात्मनेपदभ्य न त्वादन्तशङ्का अनत इति प्रतिषेधात्।तपरःकिम् । गातें । गा अन्ते इति स्थिते अन्तरङ्गत्वादप सवर्णदीर्वे पश्चात् अत् । अनत इति पर्युदासो लाघवात् । प्रसज्यप्रतिषेधे वनन्वितसमासो वा भेदश्चाश्रितः स्यात् ॥
(ध्वे सेर्लोपः) अभविठ्ठम्-अभविध्वम् । अभविषि, अभविवहि, अभविष्महि ॥ चिती संज्ञाने ॥ २ ॥
(सुबोधिनी (-ध्वे सेर्लोपः ॥ ध्वे प्रत्यये परे सिप्रत्ययस्य लोपः ॥ चिती संज्ञाने । सम्यग ज्ञानं संज्ञानम् ॥
उपधाया लघोः॥धातोरुपधाया लघो मिनी गुणः॥चेतति ॥ (सुबोधिनी) उपधाया लघोः॥ गुण इत्यनुवृत्तम् । ह्रस्वं लघु ॥
(तत्त्वदी०)-उपधाया लघोरिति ॥ गुण इत्यनुवृत्तेर्नामिन इ ते लभ्यते । उपधायाः किम् । भिनत्ति ॥ लघोः किम् । ऊहते ॥
पूर्वस्य हसादिः शेषः॥ पूर्वस्यादिर्हसः शिष्यने अन्ये हसा लुप्यन्ते ॥ चिचेत । चिचेतिथ॥
( सुबोधिनी)-पूर्वस्य हसादिःशेषः ॥आदिश्चासौ हसश्चेति विशेषणस्याप्यनेन परनिपातो ज्ञाप्यते ॥