________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता ।
(२१) ( तत्त्वदी०)-पूर्वस्य हसादिरिति ॥ हस आदिरिति छेदः । हस इति लुप्तप्रथमान्तम् ।
सेः ॥ विद्यमानात सिशब्दात्परयोर्दिसिपोरीट् ॥ (सुबोधिनी)-सेः॥ अस्तेरिट इत्येतदनुवृत्तम्। अस्तेरित सेर्विशेषणम् । विद्यमानात् सिप्रत्ययात् परयोदिस्योरीडागमः ॥ विद्यमानाकिम् ? अदात्, अत्र प्रत्ययलक्षणेन सेः परत्वमस्ति । विद्यमानादिति विशेषणान्नेट् ॥
( तत्त्वदी० )-सेरिति। अत्रास्तेरिडिति सूत्रात् पदद्वयमप्यनुवर्तते । पूर्वपदं तु सेविशेषणम् । तेन विद्यमानात्सेरिति लब्धम् । अन्यथा अदादित्यत्र प्रत्ययलक्षणेन सेरीट्प्रसङ्गः स्यात् ॥ .
इट ईटि॥ इटः परस्य सेर्लोप ईटि ॥ अचेतीत्, अचेतिष्टाम् ॥
(सुबोधिनी)-इट ईटिसिरिति लोप इति चानुवृत्तम् । लुङि अचेतिस इंडिति स्थिते। सेर्लोपः। सिलोपो दीर्धे सिद्धो वक्तव्यः दीर्घे कर्तव्ये सिलोपः सिद्धो वाच्यों, न त्वसिद्धः । अचेतीत् ॥ टः किम् । अहार्षीत् ॥ इटि किम् । अचेतिष्टाम् । - स्याविदः॥ विद्यमानात सेरातो विदश्च परस्यान उस् भवति ॥ अचेतिषुः ॥ च्युतिर आसेचने ॥ च्योतति। च्योतेत्। च्योततु, च्योतताद्वा । अच्योतत् । चुच्योत । च्युत्यात् । च्योतिता। च्योतिष्यति" अच्योतिष्यत् ॥
(सुबोधिनी)-स्याविदः॥ सिश्च आश्च विद् च एषां समाहारः स्याविद् । तस्माद् एभ्यः परस्यान उइ स्यात् ॥अत्राप्यस्तरित्यनुवृत्य विद्यमानात् सेः परस्यान इति व्याख्यानान्नेह । अभूवन् । अदुः। आविदुः॥ च्युतिर आसेचने । आसेचनम् आर्द्राकरणम् । इरितीरितो वेति विशेषणार्थः ॥
(तत्त्वदी०)-स्याविद इति॥सिश्च आश्च विद् च एतेषां समाहारः स्याविद् तस्मात्। अत्र वाक्यत्रय बोध्यम्, सेरित्याद्यम्, तत्र प्रत्ययाप्रत्ययन्यायेन प्रत्यय एव गृह्यते विकरणव्यवधानेन धातोः परस्यानोऽसंभवात् । ॐवाप्यस्तरित्यनुवर्त्य विद्यमानात्सेरिति व्याख्येभम् । तेनाभूवन्नित्यत्र प्रत्ययलक्षणेन सेः परस्याप्यनोऽविद्यमानत्वान्नो सादेशः । आ इति द्वितीय वाक्यम् । अत्र सिग्रहण नानुवर्तते।यद्यनुवर्तते तर्हि प्रत्ययलक्षणेन आदन्तादेव सेरन उस् स्यात् नान्यस्मादिति नियमःस्यात्। तथा च-अनद्यतने न स्यात्। न-विकल्पः फलितः।अयुः, अयान् । विद इति तृतीयम् । अत्राप्यूद्यतने विकल्पेन । भूतमात्रे तु सिरित्यनेनैव सिद्धम्-अत्राहुः । अत्र सिविद इति सूत्रणीयम्, तत आत इति सूत्रणीयम्, तो णब्डाविति; इत्थं चाकारग्रहणं न कर्तव्यम् इति लाघवम् । एवं कुतो न कृतमिमि चिन्त्यमिति ॥ अत्रेदमवधेयम् । एकमात्रालाघवाय योगविभागस्यानिष्प्रमाणत्वेन उपेक्षणीयत्वात् । अतो न तथा कृतमिमि विभाव्यम् ॥आसेचने इति ॥ आसेचनमार्दीकरणम्। आङीषदर्थेऽभिव्याप्तौ च ॥