________________
(२२)
सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] "इरितो वा ॥ इरितो धातोर्वा ङप्रत्ययो भवनि पे। सेरपवादः॥ , अच्युतत्-अच्योतीत् ॥ श्च्युतिर क्षरणे ॥ श्च्योतति । श्च्योतत् । : श्च्योततु-श्च्योतताद्वा । अश्च्योतत् ॥
' (सुबोधिनी)-इरितो वा ॥ इरित् यस्य स तस्मात् परितो धातोर्वा ङाभूतमात्रार्थे दिबादौ पे । सेरपवादः ॥ लित्पुषादेरित्यतो ङ इत्यनुवृत्तम् ।।
(तत्त्वदी० )-इरितो वेति॥इरित् यस्य स इरित् तस्मात् । सेरपवाद इति ॥ भूत-- मात्रार्थे दिवादौ पे इत्यपि बोध्यम् । तेन अवेवेक् भूतार्थत्वेऽपि न, रणद्धीत्यत्र दिबादिपरत्वाभावान्न । न चात्र भूतार्थताभावादेवाप्राप्तिरिति वाच्यम् । वर्तमानसमी" इत्यनेन भूतेऽपि तिबादिविधानात्, अरुद्धत्यत्र विवक्षितत्वाभात् ॥
शसात्खपाः॥ पूर्वशसात्पराः खपाः शिष्यन्ते न शसाः ॥ चुश्च्यात । श्च्युत्यात् । इच्यातिता । श्च्योति पति । अश्च्योतिष्यत् । अश्च्युतत्-अश्च्योतीत् । यकाररहितोऽप्ययम् । श्वोतति । श्चोतेत् । श्चोततु-श्चोततात् । अश्चोतत । चुश्चोत । श्चुत्यात् । श्चोतिता।श्चोतिष्यति। अश्वोतिष्यत् । अश्चुतत ।अश्चोतीत्॥ मन्थ विलोडने । मन्थात । मन्थेत । मन्थतु-मन्थताद्वा । अमन्थत । नो लोप इति नलोपे प्राप्ते ॥
(सुबोधिनी)-शसात्खपाः॥ शसः प्रत्याहारः॥मन्थ विलोडने।ज्यादावाप ॥ (तत्त्वदी०)-शसादिति ॥ शसः प्रत्याहारः । खपानां शेषलोक्तेः । शसानां निषेध इत्याह-न शसा इति॥ यकाररहित इति ॥ मधु श्चुतं घृतमिव सुपूतम्' इति प्रयोगश्चानुकूलः ॥ मन्थ विलोडने, मन्थ हिंसासंक्लेशनयोरपीत्येके ॥
ऋसंयोगान ॥ ऋसंयोगाण्णादिरकित् ॥ ममन्थ ममन्थतुः॥
(सुबोधिनी)-ऋसंयोगानेति ।। इह ऋसंयोगान्नति मूलसूत्रम् । तत्र णादिः किदित्यनुवृत्तम् । ऋश्च संयोगश्चानयोः समाहारः ऋसंयोगं, तस्मात् णादिः किन्न । जजरतुः । यादादौ कित्त्वात्, नो लोप इति नलोपः। मथ्यात् ॥
(तत्त्वदी०)-ऋसंयोगादिति ॥ ऋश्च संयोगश्च ऋसंयोगं तस्मात् । णादिः किदिति पूर्वसूत्रमनुवर्तते । कित्वाभावात्संप्रसारणाभावोऽपि । कित्त्वाविधानात् ङिवमपि न । अत्र केचित् । अर्ति प्रश्लिष्य आरतुरिरत्यादि सिद्धमित्याहुः,अन्येतु ऋऋ अतुस् इति स्तेि र इत्यत्वेअरिति च कृते पूर्ववग्रहणेन आभ्वीरित्यात्वे आरतुरिति । अत्रादिग्रहणमनुवर्त्य तन्त्रेण द्वितीयवाक्यार्थः । ऋदन्तासंयोगादेर्णादिरकित् तेन सस्मरतुरित्यादि । अथ कथं सस्रतुरिति चेन् ? नसोक्तस्यानित्यत्वात् । अत्र ऋहसादित्येव सुवचम् । ऋश्च हसश्च ऋहसं तस्मात्। एवं संयोगान्तस्य लोप इत्यत्र हसान्तस्य लोप इत्यस्यैव न्याय्यत्वम् । हसावन्ते यस्येति विग्रहः।।