________________
[ आख्याते म्वादयः ] टीकाद्वयोपेता।
(२३) नो लोपः ॥ धातोहसान्तस्योपधाभूतस्य नकारस्य लोपःकिति परे ॥ पूजार्थाश्वतेन । निरुपपदात् क्रुश्चेः विपि न ॥ मथ्यात् । मन्थिता। मन्थिष्यति । अमन्थिष्यत् । अमन्थीत् ॥ कुथि पुथि छुथिरे मथि हिंसासंक्लेशनयोः॥ (सुबोधिनी)-नो लोपः ॥ मथ्यात् ।।
इदितो नुम् ॥ इदितोधातोर्तुम्॥कुन्थति। कुन्थेत्। कुन्थतु-कुन्थताद्वा । अकुन्थत् ॥ (सुबोधिनी)-इदिती नुम् ॥ इत् इद्यस्य स इदित् तस्य नुम् स्यात् ॥
कुहोश्चुः॥ पूर्वस्य कवर्गहकारयोश्चुत्वं भवति ।हस्य वर्गचतुर्थः॥ चुकुन्थ ॥
(सुबोधिनी)-कुहोश् वुः ॥ पूर्वस्येत्यनुवृत्तम् । कुश्च हश्च कुहौ तयोः संवारनादघोषमहाप्राणप्रयत्नस्य हस्य तादृश एव वर्गचतुर्थो भवति ॥
( तत्त्वदी०)हस्य वर्गचतुर्थ इति ॥ स्थानेऽन्तरतम इत्यनेन घोषत्वादिगुणवतो हस्य तादृशो वर्गचतुर्थ एव एतच्चानधीतग्रन्थान्तरैज्ञेयम् ॥
(इदितो नलोपो न) कुन्थ्यात् । कुन्थिष्यति अकुन्थिष्यत् । "अकुन्थीत् ॥ चुबि ववत्रसंयोगे ॥ चुम्बति ॥ पिधु गत्याम् ॥ जवु
(सुबोधिनी)-इदितं नलोपो न ॥ इदितो धातोर्नस्य लोपो न भवति । नो लोप इत्यस्यापवादः । विधु गत्याम् । अयमुदिदित्येके ॥
(तत्त्वदी०)-इदितो नलोपो नेति ॥ इदं च नो लोप इत्यत्र नो वेत्यतो वेत्यस्यापकृष्टस्य व्यवस्थितत्वाल्लभ्यते। चेदितो नुम्बिधिसामर्थ्यादेव लोपोनेति वाच्यम् । नदन्तीत्यादावकिति तस्य चरितार्थत्वात् ॥ विधु गत्यामिति ॥ काश्यपादिभिरयमुदिदुक्तः, माधवादिभिस्तु वृत्तिस्वरसादनुदिदेव स्वीकृतः ।।
आदेः ष्णः स्नः।। धात्वाद्योः षकारणकारयोः सकारनकारी भवतः। सेधति । सेधेत् । सेधतु-सेधताद्वा । असेधत । सिषेध । सिध्यात् । सेधिता ।
(सुबोधिनी)-आदेः ष्णः स्नः॥ष च ण च ष्ण तस्य ष्णास् च नश्च स्नः॥ धातोः किम् । षट् ॥ आदेः किम् । लपति । अणति ॥ षोपदेशानाह-“सेक् सृप स स्तृञ् सृज् स्तृ स्त्यान्ये दन्त्याजेन्तेसादयः ॥ एकाचः षोपदेशाः स्युः वष्क स्विट स्वद् स्वञ्ज स्वप् स्मिङः ॥ १॥” दन्त्यश्च अच्च दन्त्याचौ तौ अन्तौ अव्यवहितो यस्य स दन्त्याजन्त: दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः दन्त्याजन्तस