________________
H
(२४)
सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] आदिर्येषां धातूनां ते दन्त्याजन्तसादयः। दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः एकस्वरा धातवः षोपदेशाः। कथम्भूताः । सेकृ गतो, सृपल गती, सृ गतौ, स्तृञ् आच्छादने, सृज् विसर्गे, स्तृञ् आच्छादने, स्त्यै शब्दसंघातयोः, एभ्योऽन्ये । उक्तलक्षणस्यातिव्याप्ति वारयितुमिदं विशेषणम् । पुनः कथंभूताः । वष्क गतौ, अिष्विदा गात्रप्रक्षरणे, व्वद आस्वादने, ध्वञ्ज परिष्वङ्ग, त्रिष्व' शये, स्मिक ईषद्धसने, एतैः सहिताः ॥ १॥ एकाचः किम् । सोसून्यते । चुरादावदन्तोऽयम्॥ दन्त्याजन्तति किम् । चुस्कुन्दे । दन्त्यः केवलदन्त्यो, न तु दन्तोष्ठजोऽपि ष्वष्कादीनां पृथग्ग्रहणात् । तेन--स्वाद आस्वादने इत्यस्यासिस्वददित्यादौ षत्वं न ॥णोपदेशानाह । नई नाटि नाथ नाध नन्द नक्क नृ नृतः । नर्द शब्दे, नट अवस्पन्दने, चुरादिः । नट नृत्ताविति घटादिस्तु नेह गृह्यते नाटीति दीर्घनिर्देशात् । नाथू नार्थ यात्रादौ, टुणदि समृद्धौ, नक नाशने, नृ नये, नृती गात्रविक्षेपे 'एभ्योऽष्टाभ्यो भिन्ना णोपदेशाः। 'नाधृ नन्द नृ इति त्रयाणां के चण्णोपदेशतामाहुः ॥' (तत्त्वदी०)-आदरिति ॥ प् च ण् च ष्णू तस्य । स् च पश्च स्नः ॥
प्रादेश्च तथा तौ सुनमाम् ॥ प्रादेः परेषां स्वादीनां नमादीनां च धातूनां सकारनकारयोः षकारणकारौ भवतः, षत्वणत्वनिमित्ते सति । निषेधति ॥
(सुबोधिनी)-प्रादेश्च तथा तौ सुनमाम् ॥ प्रादिसंबन्धिनः किलात् परेषांस्वादीनां सस्य षः, नमादीनां नस्य णश्च । षत्वनिमित्तं क्वि उम् । णत्वनिमित्तं षकाररेफऋवर्णाः ॥ स्वादीनाह-"उपसर्गस्थनिमित्तात् सुनं तिसुवतिस्पतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्।प्रतिभिन्नात् सदेश्चावादालम्बनाविदूर्ययोः स्तम्भेश्च व्यवाभ्यां भोजने वनश्च परिनिविभ्यः सेवसितसयासिवुसहसुटस्तुस्वञ्जादेः स्कनातेश्च सस्य षः।" व्याख्या-पुञ् अभिषवे, पू प्रेरणे, षो अन्तकर्मणि, ष्टुञ स्तुती, ष्टुभ स्तम्भ एषां तिपा निर्देशाद्यङ्लुकि षत्वंन । तेनाभिसापवीति । अभिसोषोती. त्यादि । ष्ठा गतिनिवृत्तौ । सेनयति ञ्यन्तो नामधातुः। सनया अभियातीति अभिषेणयति। पिधु गत्याम् । षिच क्षरणे । षञ्ज सङ्गे। वञ्ज परिस्वङ्गे । स्तम्भु इति सौत्रो रोधनार्थः । ष्टभि प्रतिबन्धे इति तु न गृह्यते । लक्षणप्रतिपदोक्तन्यायेन सौत्रो हि नोपध इति प्रतिपदोक्तः । इदित्वान्नुमि कृते ष्टभिर्लाक्षणिकर तेन विस्तम्भते इत्यादौ पत्वं न। षद्ल विशरणादौ । प्रतिभिन्नात्किम् । प्रतिसीदति । आलम्बनमाश्रयणम् । अविदूर एवाविदूर्यम् सामीप्यम् । ण्यः । अवष्टब्धा गौः निरुद्धा, समीपे आस्ते इत्यर्थः ॥ एतयोः किम् । अवस्तब्धो वृषलः शीतेन ॥ स्वन शब्दे । विष्वणति । सशब्दं भुङ्क्ते इत्यर्थः ॥ भोजने किम् । विस्वनति वीणा ॥ षे सेवायाम् । परिषेवनम् ॥ पिज बन्धने । क्तान्तः सितशब्दः ॥ सयशब्दस्तु स्वराद इति