________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता।
(२५) पचादेर्वा अप्रत्ययान्तः। विषयः ॥ पिवु तन्तुसंताने । परिषीव्यति ॥ षह मर्षणे । परिपहते ॥ सुडागमः । परिष्करोति ॥ स्तुस्वञ्जोः पुनर्वचनं सिवादीनामव्यवायेऽपीति विकल्पार्थम् । स्तम्भु रोधने । विष्टभ्नाति । एते स्वादयः । णोपदेशा एव नमादय इति ॥
(तत्त्वदी० )-प्रादेश्च तथा तौ सुनमाम् ॥ यद्यपि किलादित्यस्यैवानन्तरस्येति न्यायेनानुवृत्तिस्तथापि चकारेण पुर्नो ण इत्यनुवर्तते । तदेवानुवृत्तौ किं चकारेण । तथा तावित्यस्य तेन प्रकारेण तौ स्तः ॥ षत्वणत्वनिमित्ते सतीति ॥ षत्वनिमित्तं विलम् । णत्वनिमित्तं षकाररेफऋवर्णाः । तत्र स्वादयः । प्रत्ययस्यप्प्रत्ययान्तेषु षुञ् अभिषवे । ष्टुञ् स्तुतौ । ष्टुभ स्तम्भे । षोऽन्तकर्मणि । षु प्रेरणे । ष्टा गतिनिवृत्तौ । ञ्यन्तसेनाशब्दः । पञ्ज संगे । बञ्ज परिष्वङ्गे । विधु गत्याम् । अतिप्रति र्वः षद्ल विशरणगत्योः । अयङन्तः षिच् क्षरणे । अवपूर्वः ष्टम्भ निरोधे ॥ व्यवपूर्वको भोउ नार्थः । स्वन शब्दे । परिनिविपूर्वकः । षेवृ सेचने । सुदप्रत्ययः । अर्जितः षिवु तन्तुसन्ताने ' अडर्जितः षह मर्षणे ॥
(सेधतेर्गतौ नषः) गङ्गां विसेधाति ॥ (सुबोधिनी) सेधतेर्गतौ न षः॥ उपसर्गस्थनिमित्ताद्गत्यर्थसेधतेः सस्य षत्वं न । स्तिपा निर्देशाद्यलुकि गत्यर्थसेधतेः षत्वम् । निषेषिधीति ॥ (अद्वित्वव्यवधानेऽपि पा) न्यषेधत् । निषि ॥ पिधू शास्त्रे माङ्गल्ये च॥
निषाषाटो (सुबोधिनी) अद्वित्वव्यवधानेऽपि षः ॥ सितशब्दात्प्राक् पञ्चदशानां सुनोत्यादीनामड्व्यवधानेऽपि षवत् । अभ्यषुणोत् । सितशब्दात्याग्दशानां स्थादीनां द्वित्वव्यवधाने षत्वमित्यर्थः । निषिषेध । षिवू शास्त्रे माङ्गल्ये च । शास्त्रं शासनम् । मङ्गलमेव माङ्गल्यम् । ण्यः। मङ्गलक्रियेत्यर्थः॥
(तत्त्वदी०) अत्रान्तरेऽपीत्यन् वर्तते । तेनावित्वव्यवहितेऽपीत्याह-अद्वित्वेत्यादिषिधू शास्त्रे मागल्ये च । शास्त्रं शासनम् । माङ्गल्यं मङ्गलक्रिया ॥
ऊदितो वा ॥ ऊदिती धातोः परस्य वसादेरनपीडा ॥ (सुबोधिनी)-ऊदितो वा ॥ ऊत् इद्यस्य स ऊदित् तस्मात् । अनपति पण्णां लेलिङ्लुट्लङ्लुङां काराणामन्येषामपीत्यादिप्रत्ययानां च संज्ञा । अपुप्रत्ययविषयताऽभावात् ॥
(तत्त्वदी० )-ऊदितो वा ॥ ऊत् इद्यस्य स ऊदित् तस्मात् ॥ स्वरतिसूतिसूयतिधूम्रधनशतृप्पद्रुहमुहस्नुहस्निहां च स्वरतिसूतिसूयतिधूञां किद्धसादेर्णादेर्नित्यमिटू स्यात् । सेधति। सेधेत् । सेधतु-सेधताद्वा । असेधत् । सिषेध । सिषेधिथ ॥