________________
(२६)
सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] (सुबोधिनी)-स्वरतिसूतिसूयतिधूरधनशतृप्टप्द्रुहमुहस्नुहस्निहां च एभ्योगप परस्य वसादेरनपीड्डा ॥स्वृ शब्दोपतापयोः भ्वादिर्गृह्यतेऽनविकरणत्वात्।। धूङ् प्राणिगर्भविमोचने आदादिको देवादिकश्च गृह्यते, न तु षूङ प्रेरणे तौदादिकः॥ धूञ् कम्पने स्वादिस्थः क्यादिस्थश्च, न तु धू विधूनने सानुबन्धनिर्देशात् ॥ रथ हिंसासंराद्धयोः ॥णश अदर्शने ॥ तृप प्रीणने । हप् हर्षमोहनयोः ॥ द्रुह जिघांसायाम् ॥ मुह वचित्ये ॥ ष्णुह गद्गरणे ॥ ष्णिह प्रीती ॥ स्वरतिसूतिसूयतिधूञां किद्वसादेदेनित्यमिट् ॥ एभ्यः परस्य कितो वसादर्णादेनित्यमिडू भवाति । स्वरत्यादिविकल्पं बाधित्वा कित इतीनिषेधे प्राप्ते कादिनियमादिविधिः॥ (तत्त्वदी०)-वा शब्दस्य व्यवस्थावाचित्वादाह-स्वरीत्यादि ।
तथोर्धः ॥ झभान्ताद्धातोस्तंकारथकारयोर्धकारो भवति, दधातेन ॥ झभे जबाः। सिषेद्ध । सेधिता-सेद्धा । सेधिष्यति-सेत्स्यति । असेधिष्यत्-असेत्स्यत् । असेधीत् ॥
(सुबोधिनी)-तथोर्धः ॥ तश्च थ् च तथौ तयोः । आदिजबानामित्यतो झभान्तस्येत्यनुवृत्तं पञ्चम्या विपरिणम्यते ॥ झभान्तात् किम् । भूतः ॥ दधातर्ने । डधाञ् धारणादावस्मात् परयोस्तथोझै न । धत्तः॥
(तत्त्वदी०) तथोर्ध इति ॥ तश्च थ् च तथौ तयोः ।। वेत्यनुवृत्तेर्दधातेनिषेधः । यद्वातथोऽधः इति । तत्र तश्च थ् च एतयोः समाहारः तथ् तस्य तथः । अध इति दधातेर्नेत्यर्थः । आदिजबानामित्यतो झभानुवृत्तिः ॥
अनिटोऽनामिवतः॥ अनिटोनामिवतश्च धातोर्वृद्धिः स्यात्पे परे सौ॥ असत्सीत् ॥ निट असा नाभि, . __ (सुबोधिनी) अनिटोऽनामिवतः॥ द्वयमिदं धातोर्विशेषणम् । यद्यपि धातुः सर्वोऽप्यनिडेव, तस्य इविधानाभावात् । तथाऽपि न इट् यस्मात् तस्मात्परस्य तादिप्रत्ययस्योत व्याख्येयम् । अनिटो धातोरुपधाभूतस्य नामिना वृद्धिर्भवति पे सौ। नाम्यन्तस्य तु धातोर्नामिन इति सूत्रेणैव वृद्धिः । कार्यातिदेशोऽयम् । नामि विद्यतेऽस्योत नामिवान् तस्य । तडिदादित्वाद्वतुः ॥
(तत्त्वदी०)-अनिटोऽनामिवत इति ॥अनिटः अनामिवत इति छेदः । नन्वनिट्वं धातुमात्रस्यैव । नहि कस्यापि धातोरिविधीयते, किंतु प्रत्ययस्यै । । तस्मादनिट इति व्यर्थमिति चत्सत्यम् । न इट् यस्मात् परस्य प्रत्ययस्येति व्याख्यानात् । तथा ोडभावः कस्य प्रत्ययस्य ग्राह्यः ? तादेरिति गृहाण, णादेस्तु क्राद्यष्टादशातिरिक्तात्परस्य सेट्वात् । अश्च नामी च अनामिनौ तौ स्तोऽस्यानामिवान् तस्य । द्वन्द्वान्ते श्रूयमाणस्य वतोः प्रत्येकमन्वय इत्याशयेनाह-अवतो नामिवतः। यद्यपि पूर्वेणाकारनामिनोः प्राप्तिः, तथाऽप्यनुपधाभूताकारस्योपधाभूतनामिनश्चाप्राप्तावारम्भः। नन्वत्र