________________
[ आख्याते भ्वादयः ]
टीकाद्वयोपता ।
(२७)
मान्तोपधत्वाभावात्कथं वतुरिति चेत्सत्यम् । अन्यतोऽपि वतुर्भवतीत्यनेनैव ज्ञाम्पते । तेन तडित्वानित्यादि सिद्धमिति । अथ तथाऽप्यनामिन इत्येवास्तु किं वतुना इति चेन्न, नञ्समासभ्रमप्रसङ्गात्। मत्वर्थीयाद्विरूपो मत्वर्थीयो भवतीत्यनन ज्ञाप्यते । तेन हस्तिमती शालेत्यादि सिद्धम् । अथानिट इत्येवास्तु स्वरादेरित्यतः स्वरस्यानुवृत्तस्तस्य च मत्वर्थीयाकारान्तन्त्वेन ग्रहणात्स्वरवतोऽनिटो धातोः सिर्णित्कार्यकृदित्यर्थलाभात् । यद्वा - गित्कार्यं वृद्धिरेव, सा च स्वरस्यैवेति स्वरलाभात् । पूर्वेणाप्राप्तस्यैव स्वरस्य भविष्यतीत्यर्थादनुपधाभृताकारस्योपधाभूतनामिनश्च वृद्धिर्भविष्यतीत्यर्थो लभ्य एवेति चेत्सत्यम् । नामिवदूग्रहणस्योत्तरार्थवादित्यलं पल्लवितेन ।
झसात् ॥ झसादुत्तरस्य सेर्लोपो झसे ॥ असैद्धाम्, असैत्सुः । असैत्स्व, असैत्स्म ॥ खद स्थैर्ये हिंसायां च ॥ खदति । खदेत् । खदतु - खदताद्वा । अखदत् ॥
( सुबोधिनी ) - झसात् ॥ लोपो हस्वादित्यतो लोपो झसे इत्यनुवृत्तं सेरिति सूत्रं च ॥ झसात्किम् । अचेष्ट || झसे किम् असैत्सीत् ॥ इट्पक्षे असेधीत् ॥ खद स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थिरस्य भावः स्थैर्यम् । ण्यः ॥
( तत्त्वदी ० ) - झसादिति ॥ सेरित्यस्यानुवृत्तिः । लोपो हस्वादित्यतो लोपस्य ॥ झसात्किम् । अचेष्ट । झसे किम् । अत्सुरौः ॥ : किम् । अरुधतामित्यत्र ङस्य मा भूत् । अत्र लोपो ह्रस्वझसाज्झसेरिति पठितुं युक्तम् ।
अत उपधायाः ॥ धातोरुपधाया अतो वृद्धिः ञ्णिति ॥ चखाद ॥ (सुबोधिनी) - अत उपधायाः ॥ आदिस्वरस्येत्यतो णितीति वृद्धिरिति चानुवृत्तम् ॥ अतः किम् । तुतोद ॥ उपधायाः किम् । गणयति ॥
( तत्त्वदी ० ) - अत उपधाया इति ॥ आदिस्वरस्य ञ्णिति चेति वृद्धेरनुवृत्तिः । अत्रात इति योगं विभज्यादन्तस्य धातोर्वृद्धि, तेन अङ्कापयति इत्यादि सिद्धमिति । पुनरुपधाया इत्यत्र नाम्न इति योजनीयम्। तेन नाम्न उपधाया वृद्धिरिति व्याख्येयमिति त्वादयतीत्यादि सिद्धिरिति । पुनरुभयो नात् धातोरुपधाया अतो वृद्धिरिति ॥ ञ्णिति किम्, पक्ता । उपधायाः किम्, ततक्ष । धातो किम, जगतोऽयम् जागतः । अत्र परत्वादादिवृद्धिं बाधित्वा उपधावृद्धिः प्रसज्येत। गार्ग्यो जगादेत्यादावादिवृद्धयुपधावृद्धयोरवकाशः ॥
( बुत्तमो वा णित) चखाद - चखद ॥ णित्पे | पे सिणित् ॥ ( सुबोधिनी ) - बुत्तमो वा णित् ॥ उत्तमपुरुषसंबन्धी णबू वा णित् ॥ पे सिरित्यनुकृष्यते ! प परे सिणिद्भवति, ण् इत् यस्य स णित् अणितं णिदित्याह कार्यातिदेशोऽयम् ॥
( तत्त्वदी ० ) - णित्षे इति ।। ण् इद्यस्य स णित् । अणितो णित्करणाणिद्वदिति गम्यते । अन्यशब्दोऽन्यत्र प्रयुज्यमानोऽपि विनाऽपि वतिं गत्यर्थ गमयति । प्राधान्याच्च कार्यातिदेशोऽयम्। तथाच।