________________
(२८)
सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः] णितां यत्कार्यमत उपधाया इत्यादिना वृद्धयादि तदतिदिश्यते । यद्यपि णितां णबादीनामातो णब्डावित्यादिना विहितम् अबाद्यपि णित्कार्य,तथाऽपि तन्नात्र तिदिश्यते कार्यविशेषत्वात् । सामान्यातिदेशोऽयम् । णबिणादयस्तु णिद्विशेषाः । यथा ब्राह्मण वदस्मिन् क्षत्रिये वर्तितव्यमित्यत्र यद्वसिष्टे गौतमे च तन्नातिदिश्यते, किं तु ब्राह्मणसामान्यत्वस्थ ! तथाऽत्रापि णिति यद् दृष्ट कार्य तदतिदिश्यते ॥
(अतो हसादेर्लघोर्वा वृद्धिः सेटि सौ) अखदीत-अखादीत् ॥ गद व्यक्तायां वाचि॥
(सुबोधिनी)-अतो हसादेर्लघोर्वा वृद्धिः सटि सौ॥ हसादेर्लघोरकारस्य वा वृद्धिः स्यात् सेटि परस्मैपदे सौ ॥ अतः किम्। अदेवीत् ॥ हसादेः किम् । मा अतीत् ॥ लघोः किम् । अगर्दीत् ॥ सेटि किम् । अपाक्षीत् ॥ पे किम् । अयतिष्ट ।। बद स्थैर्ये । पवर्गीयादिः ॥
(तत्त्वदी०)-अतो हसादरिति अत इत्यस्यैव विशेष गद्वयम् । हस आदिर्यस्य स हसादिस्तस्य । हसादेः किम् । मा भवानतीत् ॥ लघोः किम् । अनन्दीत्॥यद्यचकाशीदित्यत्र चकारादकारस्य वृद्धिवारणाय येन नाव्यवधानमिति न्यायेन यद्येकवर्णव्यवधानमाश्रीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति न कर्तव्यमिति केचित्।एतच्च अत उपधाया इत्यत्र नो वेत्यतो वानुवृत्त्या लभ्यते । एवमन्यत्रापि वृद्धिनिषेधविकल्पयोरिदमेव मूलमूह्यम् ॥ (प्रादिस्थानिमित्तान्नेनस्य णो गदनदपदातअपिदाधास्थामाङ्मेस्यतिहन्तियातिवातिद्रातिप्सातिवपातेवहतिशाम्यतिचिनोतिदेग्धिषु)॥ (सुबोधिनी)-प्रादिस्थानिमित्तान्नेर्नस्य णोगदनदपदपतअपिदाधास्थामाङ्मेड्स्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहातशाम्यतिचिनोतिदेग्धिषु ॥ प्रादिषु तिष्ठतीति प्रादिस्थः तस्मात् निमित्तात् षकाररेफऋवर्णरूपात् परस्य नेर्णत्वं गदादिषु परेषु ॥ गद व्यक्तायां वाचि । णद अव्यक्ते शब्द। पद गतौ । पल पतने । एषां चतुर्णामपा निर्देशाद्यङ्लकि णत्वं न । प्रनिजागदीति प्रनिनानदीति ॥ अपिदेति चत्वारः । डुदाज़ दाने प्रागेददाति । दाण् प्रणियच्छति । दो प्रणियति । देङ् प्रणिदयते ॥धारूपौ द्वौ । धेट प्रणिधयति । डुधाञ् प्रणिदधाति । ष्ठा गतिनिवृत्तौ । माङ्-माने । मेङ् प्रणिदाने । षो अन्तकर्मणि । हन् हिंसागत्योः । याप्रापणे वागतिगन्धनयोगद्रा कुत्सायाम्। प्सा भक्षणे । टुवY बीजतन्तुसन्ताने । वह प्रापणे । शमु उपशमे । चिञ्चयने।दिह उपचये । स्यत्यादीनामेकादशानां श्तिपा निर्देशाद्यङ्लुकि णत्वं न । प्रनिमासेति । प्रनिजंघनीतीति ॥