________________
[ आख्याते म्वादयः ] टीकाद्वयोपेता।
(तत्त्वदी०)-प्रादिस्थादिति ॥ प्रादिषु तिष्ठतीति प्रादिस्थम् तस्मात् निमित्तात् णत्वनिमित्तात् षकाररेफऋवरूंपात् नेरुपसर्गस्य नस्य णत्वमित्यर्थः । गदादिषु धातुषु परेषु ॥ यत्तु नेर्णत्वमित्येतावन्मानं वासुदेवेनोक्तं, तन्न; निगदतीत्यादावतिव्याप्तेः । विनिगदतोत्यत्र च ॥
(अन्यत्राकखादावषान्ते आयोचारणे वा ) अकखादौ किम् । प्रनिकरोति । प्रनिखादति ॥ अषान्ते :किम् । प्रनिदुष्यति ॥ वेति किम् । प्रणिभवति । प्रनिभवति ॥ आद्योच्चारणे किम् । प्रनिचकार । प्रनिचखाद । प्रणिगदति । अगदीत् ॥ रद विलेखने । रदति । रदेत् । रदतु । अरदत् । रराद ।
(सुबोधिनी)-अन्यत्राकखादावषान्ते आद्योञ्चारणे वा ॥ आदौ भवा आद्याः।आद्यानां पाणिनिकात्यायनपतञ्जलीनामुच्चारणमाद्योच्चारणं तस्मिन् । कादिखादिषान्तवर्जे गदनदादरेन्यस्मिन् धातौ परे प्रादिस्थानिमित्तात्परस्य नेर्नस्यणत्वं वा । कश्चखश्च करवौ तावादी यस्य स कखादिः कखादेरन्योऽकखादिस्तस्मिन् । षोऽन्तो यस्य स षान्तस्तस्मादन्योऽषान्तस्तस्मिन् । अकखादौ किम्।प्रनिचकार प्रणिचखाद॥ अषान्ते किम् । प्रनिपेक्ष्यति ॥ रद विलेखने विलेखनं भेदनम् । (तत्त्वदी०)-अन्यत्रेति ॥ अन्यत्र वा अन्यस्मिन् धातौ परे प्रादिस्थनिमित्तपूर्वकस्य नेर्णत्वं वेत्यर्थः । आद्योच्चारणे प्रथमोच्चारणसमये अकखादौ अषान्ते च । कश्च खश्च कखौ लावादी यस्य स कखादिः कखादेरन्योऽकखादिस्तस्मिन् । षः अन्ते यस्य स षान्तस्तस्मिन् । आद्योचारणे इत्युभयत्रान्वेति । तथा चायमर्थः, आद्योचारणे कादिखादिषान्तवर्जगदनदादेरन्यस्मिन् धातौ परे ग्रादिस्थानिमित्तात्परस्य नेनस्य णत्वं वा भवति । प्रणिभवन्ति, प्रनिभवन्ति ॥ अकखादौ किम् । प्रनिकरोति । प्रनिखादति ॥ अान्ते किम् । प्रनिपिनष्टि । विलेखने इति विलेखन भेदनम् ।
लोपः पचां कित्ये चास्य ॥ पचादीनां लिटयनादेशादीनां पूर्वस्य लोपो भवत्यकारस्य एकहसमध्यस्थस्य चैकारः, किति णादौ सेटि थपि च ॥रेदतुः । रेदिथ ॥ णद अव्यक्ते शब्द । प्रणिनेदुः । नेदिथ ॥ अर्द गतो याचने च । आभ्वोर्णादो॥
(सुबोधिनी)-लोपः पचा कित्ये चास्य ॥पचामिाति बहुवचनेन पचप्रकारा धातवो गृह्यन्ते । यथा पचधातुरेकहसमध्यस्थाकारवान् लिटि अनादेशादिश्च तथाऽन्येऽपि धातवः ॥ अस्य किम् । दिदिवतुः। ररासे॥ अनादेशादीति किम् । चकणतुः॥ एकशब्दोऽत्रासहायवचनः। एकौ च तौ हसौ च एकहसौ तयोर्मध्यस्थः एकहसमध्यस्थस्तस्य ॥ एकहसेति किम् । तत्सरतुः। त्सर छद्मगतौ ॥ आभ्वोर्णादौ ॥