________________
( ३० )
सिद्धान्तचन्द्रिका |
[ आख्याते भ्वादयः ]
' (तत्त्वदी ० ) - लोपः पचामिति ॥ पचामिति बहुवचनेन पचप्रकारा धातवो गृह्यन्ते ॥ तथा पचधातुरेकहसमध्यस्थाकारवान् लिटि अनादेशादिश्च तथाऽन्नोऽपि धातुरिति । तथा च पप्रच्छतुरित्यत्र एकहसमध्यस्थत्वाभावान्नैत्वलोपौ ॥ अनादेशादिः किं । चखूनतुः । लिटघनादेशविशेषणात् नेमिथ । सेहे ॥ अस्य किम् । दिदिवतुः ॥
नुगशाम् ॥ अश्नोतेर्ऋकारादेर्हसान्तस्य संयोगान्ताकारादेश्च पूर्वस्य तुग्भवति णादौ । आनर्द | आदत् ॥ नर्द गर्द शब्दे ॥ तर्द हिंसायाम | तर्दति ॥ कर्द कुत्सिते शब्दे । कर्दति ॥ खर्द दन्दशूके खर्दति ॥ ऋदि चेष्टायाम् ॥ क्लिदि परिदेवने । किन्दति ॥ अत सातत्यगमने । आतिथ । खाद्य भक्षणे । अखादीत्। ऋदि आह्वाने रोदने च ॥ अति अदि बन्धने । अन्तति । अन्तेत् । अन्ततु । आन्तत् । आनन्त । आनन्द । अन्द्यात् । अन्दिता । अन्दि यति । आन्दिष्यत् । आन्दीत् ॥ टुणदि समृद्धौ । ननन्द ॥ चf आह्लादने दीप्तौ च । इदितो नुम् । चन्दति । चन्देत् । चन्दतु । अंचन्दत् । चचन्द | चन्द्यात् । चन्दिता । चन्दिष्यति । अचन्दिष्यत् । अचन्दीत् । शुन्ध शुद्धौ । शुन्धति । शुन्धेत्। शुन्धतु। अशुन्धत् । शुशुन्ध । शुध्यात् । शुधिता । शुन्धिष्यति । अशुन्धिष्यत् । अशुन्धीत् ॥ तक्क कक्क इसने । तकि कृच्छ्र जीवने । तङ्कति । ततङ्क । अतीत् ॥ शुक गतौ । शोकति । अशोकीत् ॥ बुक्क भषणे । बुक्कति ॥ ष हसने । कषति ॥ युगि जुगि वर्जने। युङ्गति ॥ इदि परमैश्वर्ये इन्दति ॥
( सुबोधिनी ) - शाम् ॥ अशूङ् व्याप्तौ । अशामिति बहुवचनमाद्यर्थम् । संयोगोऽन्तो यस्य स संयोगान्तः स्वर आदिर्यस्य स स्वरादिः संयोगान्तश्चासौ स्वरादिश्व संयोगान्तस्वरादिस्तस्य ॥ अत सातत्यंगमने । सततस्य भावः सातत्यम् । सातत्येन गमनं सातत्यगमनं तस्मिन् ॥ खाद्य भक्षणे । ऋदित्वान्न रित इत्यङ्कार्य न । अचखादत् ॥ टुणदि समृद्धौ । टु इति द्वितोऽथुरित्यथुप्रत्ययार्थः । नन्दथुः ॥ दित्वान्नस्य लोपो न । नन्द्यात् ॥ चदि आह्लादने दीप्तौ च । हर्षे तेजसि चेत्यर्थः ॥ क्लिदि परिदेवने । परिदेवनं शोकः ॥ इदि परमैश्वर्ये । ईश्वरस्य भाव ऐश्वर्यम् । ण्यः ॥ परा उत्कृष्टा मा लक्ष्मीर्यस्य तत् परमं परमं च तदैश्वर्यं च परमैश्वर्य तस्मिन् ॥ (तत्त्वदी० ) - नुगशामिति अशामिति बहुवचनेनैतत्सर्वं लब्धमित्याह ऋकारादेरित्यादि ॥
स्वरादेः ॥ स्वरादेर्धातोर्द्वितीयोऽडागमो भवति दिबादौ परे ॥ अइए । ए ऐ ऐ । ऐन्दत् ॥