SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (सुबोधिनी)-स्वरादेः॥ दिवादावडित्यनुवृत्तम्। स्वर आदिर्यस्य सः स्वरादिस्तस्य । आरम्मसामर्थ्यात् द्वितीयोऽडित्यर्थः । अहं विना स्वरादित्वमिह विवक्षितम्, अन्यथा दिबादावडित्यग्रे अटि चेति सूज्यताम् ॥ ___ (तत्त्वदी०)-स्वरादेरिति। अाटं विना स्वरादित्वं बोध्यम्, विधानसामर्थ्यात् । अन्य दिबादावडित्यस्याने अट्चेति सूत्रिते। न द्वितीयाटःसंभवात् । यतु वासुदेवेन आद्योच्चारणे खरादेः। अन्यथा सर्वस्यैव प्रथमाटा स्वरादित्वाट व्यावृत्तरित्युक्तम् , तन्न। औष्ट ऐज्यत इत्यादावप्रसङ्गात् ॥ द्वितीय इति । विधानसामर्थ्यात् प्रथमाबाधेन भवतीत्याशयः । कारणसामर्थ्यादेकेनाटा धातुकार्यानन्तरं द्वितीयेन कार्यमित्याह । ए ऐ ऐ॥ कासादिप्रत्ययादाम क्रमभूपरः॥ काम् आम् दय अय गुरुनाम्याद्यनेकस्वरेभ्यो णबादौ परे आम् प्रत्ययो भवति । स च कृ अम् भूपरः प्रयोक्तव्यः। (सुबोधिनी)-कासादिप्रत्य यादाम् क्रमभूपरः।कासृ शब्दकुत्सायाम्।आस् उपवेशने । दय दाने । अय गतौ ।गुरुश्चासौ नामी च गुरुनामी स आदिर्यस्य च गुरुनाम्यादिर्धातुः । प्रत्ययग्रहणम नेकस्वरोपलक्षकम् । एभ्य आम् प्रत्यय: स्यात् । कीदृशः क्रस्भुवः परे यस्मात्स क्रमभूपर इत्यर्थकथनेन विपर्यासव्यवहितयोर्निवृत्तिः कथिता । कथं तर्हि 'तं पातयां प्रथममास पपात पश्चात्' । 'प्रभ्रंशयां यो नहुषं चकार' इत्यादिप्रयोगाः ? प्रमादन एव। क्रस्भुवां क्रियासामान्यवाचित्वादाम्प्रकृतीनां क्रियाविशेषवाचित्वात्, त र्थयोरभेदान्वयो भवति । सामान्यविशेषयोरभेदान्वयो लोकतः सिद्धोऽस्ति । एवं च इन्दांचकार । इन्दांबभूवेत्यादौ एककर्तृकाभतानद्यतनपरोक्षा परमैश्वर्या भिन्नक्रियेति तुल्यो बोधः। ननु करोतिः सकर्मकः, भवतिस्त्वकर्मकः, कथं द्वयोस्तुल्यवोध इति चेदत्राहुः, यदा हि करोतिरुत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते तदा तस्य नियमन सकर्मकत्वं भवति घटं चक्र, राज्यं चकारेत्यादौ। यदा तु क्रियाऽन्तरसमानाधिकरणःकरातःप्रयुज्यते तदा यत्समानाधिकरणः करोतिस्तत्सकर्मकत्वाकर्मकत्वाभ्यां कृत्वा स्वयमपि तथा सकर्मकाकर्मकभावौ भजते। जुहवांचकारोतिाएवं भ्वस्त्यारप्याम्,प्रकृतिसमानाधिकरणत्वेन क्वचित्सकमकत्वं बोध्यम् । तथा च-'तस्यातपत्रं बिभरांबभूवे' इति माघः॥ 'तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांवभूविरे' इति श्रीहर्षश्च ॥ इत्यत्र क्रियान्तरसमानाधिकरणाद्भवतेः सकर्मकत्वात् कर्मणि लिट । एवं चाम्प्रकृत्यर्थगतकारकसंख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति ॥ गुरुनाम्यादि किम् । इयेष ॥ अनेकस्वरोत किम् । अ इवाचचारेति औ इत्पत्र प्रत्ययान्तत्वेऽप्यनेकस्वरत्वाभावादाम् म ॥ (तत्त्वदी०) कासादिति ॥ गुरुयों नामी स आदिर्यस्य स गुरुनाम्यादिः। प्रत्ययग्रहणमनेकस्वरोपलक्षकम् । तेन अ इवाचचार औ इत्यत्र प्रत्ययान्तत्वेऽप्यनकेस्वरत्वाभावान्नाम् ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy