________________
31.2
(३२)
सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ] (विददरिद्राजाग्रुषांस॥ वा पूर्वस्य ऋवर्णस्याकारः॥ (सुबोधिनी)-विददरिद्राजाग्रुषां वा॥ एभ्यो वाऽऽन् दरिद्वाजागोरनेकस्वरत्वान्नित्यप्राप्ती वेत्त्योषत्योश्चाप्राप्तौ विकल्पः । विद् ज्ञाने । दरिद्रा दुर्गतौ । जाट निद्राक्षये । उष दाहे । आमो मस्य नेत्वम् । आस्कासोराम्विधानात् ज्ञापकात् ॥ रः॥ ऋ अः इति छेदः । 'पूर्वस्य हसादिः शेषः' इत्यतः पूर्वस्येत्यनुवृत्तम् ॥
(तत्त्वदी०) अनोदितो वेत्यतो वाऽनुवृत्तेराह-विददरिद्राजाग्रुषां वति॥ दारिद्राजागोरनेकस्वरत्वान्नित्यप्राप्ती वेत्त्योषत्योश्चाप्राप्तौ विकल्पः॥र इति।। ऋ: इति छेदः 'पूर्वस्य हसा. दिः शेषः' इत्यतः पूर्वस्येत्यनुवर्तते, यत्तु वासुदेवेन णबादौ पूर्वस्येत्यनुवर्तत इत्युक्तम् ,तन्न । र इत्यत्राख्यातपादस्थे णबादानिति अस्मात्कृत्पादस्थानुवृत्त्यसंभवात् ॥
धातोनामिनः॥ नाम्यन्तस्यादन्तस्य च धातोर्वृद्धिः, णिति परे ॥ इन्दांचकार, इन्दांचक्रतुः, इन्दांचक्रुः । इदांचकर्थ । इन्दामास, इन्दामासतुः, इन्दामासुः। इन्दांबभूव । इन्द्यात् । ऐन्दीत् ।। णिदि कुत्सायाम् । इदितो नुम् । प्रपूर्वः । प्रणिन्दति । प्रनिन्दति । प्रनिन्देत् । प्रणिन्दतु । प्राणिन्दत् । निनिन्द । निन्द्यात । निन्दिता । निन्दिष्यति । अनिन्दिष्यत् । अनिन्दीत ॥ दधि पालने । ददङ॥ उख गतौ । अप् कर्तरि । उपधालघोर्गुणः । ओखति । ओखेत् । ओखतु । औखत् ॥
(सुबोधिनी)-धातो मिनः॥आदिस्वरस्यत्यतो वृ िरिति णितीति चानुवृत्तम् । अत्र हि स्वरस्यति पदमनुवत्ये वाक्यभेदेन व्याख्येयम् । तेन स्वरान्तस्य धातोर्वृद्धिः णिति । तेन श्वानमाचष्टे शावयति विद्वांसं विदावयतीत्यादि सिद्धम्। अदन्तस्येति अत उपधाया इत्यत्रात इति योगविभागात्तस्यहाकर्षणाद्वा लब्धम् । तेन च-अङ्कापयतीत्यादि सिद्धम् ॥
( तत्त्वदी०) धातोर्नामिन इति ॥ आदिस्वरस्येत्यतोवृद्धि ञ्णितीति चानुवर्तते ।। धातोः किम् । आत्रेयः । नात्रादिवृद्धिर्बाधिका, नापि यस्य लोपः, उ योरन्यत्र सावकाशत्वादत्र परत्वादन्त्यवृद्धिरेव स्यात् । तथाहि-आदिवृद्धेवकाशः आश्वयुज इत्यत्र, अन्त्यवृद्धेःनिनाय । इहोभयप्रसङ्गे परत्वादन्त्यवृद्धिरेव,अतो धातोरित्युक्तम्।अथैवमग्निभुयोऽपत्यमाग्नि व इत्यत्रान्त्यवृद्धिःप्राप्नोति भुवोधातुत्वादिति चेत् , शृणु । धातोरित्येवंशब्देन विहिते णिति : द्विरिति व्याख्येयम् । अत्र तु नाम्नो विहितोऽण, न तु धातोः । एवं चाग्निभुवमिच्छतीति वाक । नाम्नो य ईचास्येति यः। ततः क्विप् । अल्लोपयलोपौ । तस्यापत्यमाग्निभव इत्यत्रापि न भवति । नामशब्देनात्राणो विधानात् । अथात्रादिस्वरस्येत्यतः स्वरस्येत्यनुवर्त्य स्वरान्तस्य धातोरिति व्याख्येयम् । मैवम् । स्वरसहचारतादिशब्दस्याप्यनुवृत्तिप्रसङ्गात् । दरिद्रावित्यादावतिव्याप्तेः । स्वरमात्रावृत्तौ तु गणयतीत्यादावन्त्यवृद्धेर्दुरित्वात् । न चात्र यत इति लोपो बाधकः, तस्यानपि सामान्ये विहितत्वेनास्यानपि