________________
[ आख्याते खादयः ] टीकाद्वयोपेता। विशेषे णिति विहितत्त्वादपवाद वात् ॥ इन्दामासेतिक्रिस्भूपर इत्यत्र पृथग्ग्रहणादस्ते भावो न, अन्यथा हि कृभूपर इत्येवोच्चंत । आमो मस्येत्वमास्कासोर्विधानान्न, अन्यथा मित्त्वादन्त्यस्वरात्परत्र विधानादास्कासोः सकारात्पूर्वविधाने सवर्णदीर्घत्वे वैलक्षण्याभावात् ।
(असवणे स्वरे पूर्वस्येवर्णोवर्णयोरियुवौ) उवोख । ऊखतुः। ऊखुः । उवोखिथ । औखीत् ॥ लुश्च अपनयने ॥ अञ्चु गतिपूजनयोः । अञ्चति । अञ्चत् । अञ्चतु । आश्चत् । आनञ्च । अच्यात् । पूजायां अञ्च्यात् । आश्चिता । अश्चिष्यति । आश्चिष्यत् । आश्चीत् ॥ आछि आयामे। आञ्छति । आञ्छेत् । आञ्छत् ॥
(सुबोधिनी)-असवणे स्वरे पूर्वस्येवोंवर्णयोरियुवा ॥ धातोः पूर्वस्येवर्णावर्णयोरियुवौ भवतः, अपवणे स्वरे । पूर्व द्वित्वं पश्चादुकारस्योपधाया लघोरिति गुण कृते पूर्वस्यो । उवोख कित्वाद्गुणाभावे ऊखतुः । अत्र उ उ अतुस् इति स्थिते पर्जन्यवल्लक्षणप्रवृत्तिरिति न्यायात् पूर्वस्य ह्रस्वस्यापि ह्रस्वे कृते सवर्णदीर्घः। ततो 'हस्वः' इति पुनर्हस्वो न, लक्ष्ये लक्षणं सकृदेव प्रवर्तते इत्युक्तत्वात् । नुग-- शामिति नुक् । आनञ्चागतो नो लोप इति नो लोपः ।अच्यात् । आछि आयामे । आयामो दैर्घ्यम् ॥
(आज्छेर्नुग्वा णादौं) आञ्छ आनाञ्छ ॥ हुर्छा कौटिल्ये ॥ (सुबोधिनी) आञ्छेन गवा णादौ ॥ आञ्छेः पूर्वस्य नुर वा णादौ परे । नुगशामिति नित्ये प्राप्ते विकल्पः॥
खोर्विहसे ॥ इति । हुर्छतु । जुहूर्छ । हूछात् । हूर्छिता । हछिष्यति । अहूछिष्यत् । अहूछीत् । युच्छ प्रमादे। युच्छति ॥ वजगतो॥ (शसददवादिगुणभृताकाराणां नैत्वपूर्वलोपौ) ववाज । ववजतुः। अवाजीत् ॥ बज गतौ । व्रजति । व्रजेत् । व्रजतु । अवजत् । वव्राज व्रज्यात । व्रजिता । व्रजिष्यात । अवाजष्यत् ॥ (सुबोधिनी )शसददवादिगुणभूताकाराणां नैत्वपूर्वलोपौ ॥ एषामेत्व. पूर्वलोपौ न ।शसु हिंसायाम् । दन्त्यान्तः। दद दाने । वकारो दन्त्यौष्ठयः आदौ यस्य स वादि। गुणशब्देन भूतः उत्पादितःगुणभूतश्चासौ अकारश्च गुणभूताकारःशशरतुरित्यादौ गुणशब्देन क्रियमाणोऽर् तदवयवोऽकारः। लुलविथेत्यादौ तु गुणशब्देन क्रियमाणो य ओकारस्तत्स्थानिकस्यावादेशस्यावयवोऽकारस्तस्यैत्वपूर्वलोपौ न ॥