________________
(३४)
सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ] __ (तत्त्वदी०)-शसददेति ॥ शशप्लुतगताविति तालव्या तस्य ग्रहणमिति कश्चिद्वभ्राम, तद्भाष्यविरोधादुपेक्ष्यम् ॥ गुणभूतेति ॥ गुणो भवतीति गुण ब्देन भावितो योऽकारस्तस्येत्यर्थः । तथा च शशरतुरत्रापि गुणे कृतेऽवयवस्यास्य नं । लुलन्थेित्यत्र ओकारे गुणे तस्यापि तदवयवस्यास्य न । गुणसूतत्वं साक्षात्परम्परासाधारणम् । तेनोक्ता योगद्वयनिर्वाहः । एतच्च लोपः पचामिति सूत्रे चकारादधिकाराल्लभ्यते ॥ ' (वदिव्रज्योः सौ नित्यं वृद्धिः) अब्राजीत ॥ अज गतौ क्षेपणे च ॥ अजति । अजेत् । अजतु । आजत् ॥
(सुबोधिनी)-वदिव्रज्योः सौ नित्यं वृद्धिः ॥ एतयोर्नित्यं वृद्धिः सौ परे ॥ अतो हसादेरिति विकल्पप्राप्तौ नित्यविधानम् ॥ • (तत्त्वदी०)-वदिव्रज्योरिति । अतो हसादेरिति विकल्पप्राप्तौ नित्यम् ॥ . (अजरचतुषु वीवसादौ वा) विवाय ॥
( सुबोधिनी )-वदिव्रज्योः सौ नित्यं वृद्धिः॥ तयोर्नित्यं वृद्धिः सौ पर॥ अतो हसादेरिति विकल्पप्राप्तौ नित्यविधानम् ॥ - नुधातोः॥विकरणस्य नोर्धातोश्चेवर्णोवर्णयारियुवा स्वरे । अनेकस्वरस्यासंयोगपूर्वस्य तु य्वौ ॥
(सुबोधिनी)-नुधातोः॥य्वोर्धातोरिति सूत्रं य्वौ वेति चानुवृत्तम् । क्नुप्रत्ययसम्बन्धिनो नु इत्यस्य न ग्रहणं निरनुबन्धकग्रहणे न सान् बन्धकस्येत्युक्तत्वात् । णु स्तुताविति धातोरपि न कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रह गमिति परिभाषितत्वात्। परिशेषात् नु इत्यस्य विकरणस्य ग्रहणम् । नुप्रत्ययान्तस्य यातोश्चवर्णोवर्णयोरियुवो। अनेकस्वरस्यासंयोगपूर्वस्य तु नोर्धातोश्चवर्णोवर्णयोझै धातोर्विहिते स्वरादौ परे । शक्नुवन्ति । शिश्रियतुः। ब्रुवन्ति । असंयोगपूर्वस्यानेकस्वरस्य तु सुन्वन्ति । निन्यतुः। जुह्वति॥अनेकस्वरस्येति किम् । रियात । पियति । रि पि गतौ ।रुवन्ति । नुप्रत्ययान्तस्यानेकस्वरत्वाव्यभिचारात् प्रत्युदाहरणं न॥धातोविहिते इति किम् । सुधीशौ ॥
(तत्त्वदी०)-तुधातोरिति वोर्धातोरिति य्वौ वेति च पूर्व सूत्रद्वयमनुवर्तते । अत्र च धातोर्विहिते स्वरादौ परे इति बोध्यम् । तेन सुधीशावत्र पदादिस्वरे न । सूत्रे ह्यत्र क्लोरपि न ग्रहणं नुग्रहणेन निरनुबन्धकग्रहणे न सानुबन्धकस्येति परिभाष या विकरणस्यैव नोर्ग्रहणात् । गुस्तुताविति धातोरपि न ग्रहणं कृत्रिमत्वात् ॥
( उवर्णान्तेषु हुन्वोरेवापि ) विव्यतुः।
( सुबोधिनी )उवर्णान्तेषु हुन्वोरेवापि ॥ अपि अब्विषये चतुषु अनेकस्वरस्यासंयोगपूर्वस्य धातोरुवर्णस्य वत्वं न । हुन्वोरेव वत्वं चतुषु । अनापि तु जुहुवतुः। विव्यतुरित्यत्र य्योर्विहसे इति दी? न यत्वस्यासिद्धत्वात् ।।