________________
[ आख्याते स्वादयः ]
टीकाद्वयोपेता ।
( ३५ )
1
(तत्त्वदी ) - वर्णान्तेषु हुन्वोरेवापीति ॥ दु दानादनयोः । नोर्विकरणस्य अपि अब्विषये इत्यर्थः । तेन जुह्वति चन्वतीत्यत्रैव नतु बोभुवतीत्यत्रापि । एतच्चानुवृत्त्या लभ्यते ॥ (स्वरान्तादत्वतःच तादौ नित्यानिटस्थपो वेट् ) विवयिथ | विवेथ । आजिथ । विव्यथुः । विव्य । आजिव । आजिम वीयात् ॥
( सुबोधिनी ) - स्वराननादत्वतश्च तादौ नित्यानिटस्थपो वेट् ॥ स्वरातात्तादौ नित्यानिट आधोच्चारणेऽत्वतस्तादौ नित्यानिटश्च धातोः परस्य थप इ वा भवति ॥ अविद्यते यस्य स अत्वान् तस्मात् ॥ स्वरान्तात् किम् । बिभेदिथ ॥ थपःकिम्। पपि ॥ तादौ नित्यानिटः किम् । सस्वरिथ। स्वरतिमूतीत्यनेन
कोयम् ॥ आद्योच्चारण इति किम् । चकर्षिथ ॥ अत्वतः किम् । विभेदिथ ॥ तपरः किम् । रराधिथ ॥ ताविति किम्। जग्रहिथ । 'वुः से' इत्यनेन सप्रत्ययेऽयं नित्यमनिः । नित्यानिटः विम् । आनञ्जिथ । ऊदित्त्वाट्कोऽयम् ॥
( तत्त्वदी ० ) अत्वत इ ते || अद्विद्यते यस्य सोऽत्वान् । तस्मादित्यर्थः । नित्यानिटः किम् | अङ्का । अञ्जिता ॥
नैकस्वरादनुदात्तात् ॥ आद्योच्चारणेऽनुदात्तादेकस्वराद्धातोः परस्य वसादेरिन स्यात् ॥
( सुबोधिनी ) - नैकस्वरादनुदात्तात् ॥ आद्योच्चारणे इत्युभयत्रान्वेति । आद्योच्चारणेऽनुदात्तादेकस्वर बेत्यर्थः । तेन विभित्सतीत्यत्र सान्ते अनेकस्वरत्वेपीनिषेधो भवत्येव ॥
( तत्त्वदी ० ) - नैकस्वर र दिति ॥ आद्योच्चारणे इति उभयत्रान्वेति । आद्योच्चारणेऽनुदात्तादेकस्वराच्चेत्यर्थः । तेन विभित्सीत्यत्र सान्ताद् द्वित्वदशायामनेकाल्त्वेऽपि इग्निषेधो भवत्येव ॥ “अनिट् स्वरान्ती भवतीति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः । अदन्तमृदन्त मृतां च वृवृञौ श्विडीङिवर्णेष्वथ शीश्रिजावपि ॥ १ ॥ गणम्थमृदन्तमुतां च रुस्तुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णुवः ॥ इति स्वरान्ता निपुणैः समुच्चितास्ततो हसा - न्तानपि सन्निबोधत ॥ २॥ शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्व सान्तेषु वसिः प्रसारणी ॥ रभिश्च भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे ॥ ३ ॥ यमिर्ञमान्तेष्वनिडेक इष्यते रमिदिवादावपि पठ्यते मनि॥ नमिचतुर्थी हनिरेव पञ्चमो गमिस्तु षष्ठः प्रतिषेधवाचिनाम् ॥ ४ ॥ दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः ॥ इमेऽनिटोऽष्टाविह मुक्तसंशया