SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ] गणेषु हान्ताः प्रविभज्य कीर्तिताः॥५॥ दिशिं दृशिं दंशिमथी मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम् ॥ लिशिं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान् ॥६॥ रुधिः सराधियुधिबन्धिसाधयः धिक्षुधी शुध्यतिबुध्यती व्यधिः ॥ इमे तु धान्ता दश चाऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे ॥७॥शिषि पिर्षि शुष्यतिपुष्यती त्विर्षि विषि श्लिषि तुष्यतिदुष्यतीद्विषिम् ॥इमान् दशैवोपदिशन्त्यनिड्विधौगणेषु षान्तान कृषिकर्षती तथा ॥८॥ तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिप्यती सृपिम् ॥स्वरेण नीचेन शपिं छपिं क्षिपिं प्रतीहि पान्तान् गणितांस्त्रयोदश ॥९॥ अदि हदि स्कन्दिभिदिच्छिदिक्षुदीशदिंसदि स्विद्यतिपद्यती खिदिम्नुदितुदि विद्यविनत्तिकावपिप्रतीहि दान्तान् दश पञ्च चानिटः ॥१०॥पचिं वचिं विचिरिचिरञ्चिपृच्छतीनिजि सिचिं मुचिभजिभञ्जिभृज्जतीन् । त्यजिं यजिं युजिरुजिसञ्जिभज्जतीन् भुजि स्वजि सृजि-विजिविद्धयनिट्स्वरान् ॥ ११॥" इत्यनिट्कारिकाः॥ (सुबोधिनी)-अथानुदात्ताः॥ स्वरान्तो धातुरनिट् भवति । न इट् यस्मात्सोऽनिट् इति भवद्भिदृश्यतां ज्ञायताम् । तु पुनः स्वरान्तेष्विमान् धातून सेटः प्रवदन्ति । तान् विदन्तीति तद्विदः। तानाह--अदन्तं धातुं कथ वाक्यप्रान्धे इत्यादिकम् ॥ ऋदन्तं कृ विक्षेपे इत्यादिकम् ॥ ऋतां मध्ये वृङ्वृजौ सटौ । वृङ् संभक्तौ । वृi वरणे ॥ अथेवणेषु इवर्णान्तेषु श्विडीङ सेट् कथ्यते । श्विश्च डीङ् चानयोः समाहारः श्विडीङ् । टु ओश्वि इर् गतिवृद्धयोः । डीड़ विहायसा गतौ पुनस्तेषु शीशिक्षावाप सेटौ कथ्यते । शी स्वप्ने । श्रिञ् सेवायामिति ॥ १॥ गणे तिष्ठतीति गणस्थस्तं गणस्थम् । ऊदन्तं.धातुं भूलूप्रभृतिम् ॥ किं च पुनः उताम् उकारान्तानां मध्ये रुस्नुवौ सेटौ । रु शब्दे । रुक गतिरेषणयोरित्युभयम् । स्नु प्रस्रवणे । तथा शुवं टुक्षशब्दे । ऊर्णोतिम् । ऊर्गुञ् आच्छादने । अथो युणुक्ष्णुवः धातून सेटः । यु मिश्रणादौ । अयं सेट् । यु बन्धने । भैयादिकस्त्वनिट् । णु स्तुतौ। क्ष्ण तेजने। प्रवदन्तीत्यनेनान्वय इति। अमुना प्रकारेण निपुणैः विक्षणैः स्वरान्ता धातवः समुच्चिताः एकीकृताः । ततोऽनन्तरं हसान्तान् धातून् अनिटः सकाशात् यूयं निबोधत जानीत । लोटो मध्यमपुरुषस्य बहुवचनम् ॥ २ ॥ अथ हसान्तान् धातूनाह । कान्तेषु शकिः एकः, अनिट् । शक्ल शक्तौ । शक मर्षणे देवादिकस्तु सेट्॥ सान्तेषु घसिः। घस्ल अदने।अदादेशो घसिश्च ।। तु पुनः वसिःप्रसारणी। वस निवासे । प्रसारणं संप्रसारणमस्यास्तीति प्रसारणी एतेन वस आच्छादने । आदा
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy