________________
[ आख्याते दयः ] टीकाद्वयोपता। दिकः सेट् । तस्य संप्रसारणाभावात् ॥ भान्तेषु रभिः । रभ राभस्ये ॥ अथ मैथुने यभिः । यभ मैथुने ॥ ततस्तृतीयो लभिः।अनिट् । डुलभ प्राप्तौ । अनिट् इष्यते इत्यन्वयः ॥ इतर धातवोऽनिटो न ॥३॥ अमान्तेषु ञमप्रत्याहारान्तेषु धातुषु प्रतिषेधवाचिनामिनिषेधकानां मध्ये एकः अनिट् यामः । यम उपरमे । रमिश्च रमु क्रीडायामपि । दिवादौ दिवादिगणे यःमनिः विचक्षणैः पठ्यते स मानः।मन् ज्ञाने देवादिकः। मनु अवबोधने तानादिका सेट् ॥चतुर्थो नमिः।णम् प्रह्वत्वे शब्दे च ॥ पञ्चमो हनिः। हन् हिंसागत्योः । ततस्तु षष्ठो गमिः । गम्ल गतौ । मयेष्यते इत्यन्वयः ॥४॥ इहानिदकारिकायामिमेनिटोऽष्टौ धातवी हान्ता मया कीर्तिताः कथिताः। कीदृशाः मुक्तः संशयो येषु ते मुक्तसंशयाः। किं कृत्वा । गणेषु हान्तान् प्रविभज्य भिन्नीकृत्य । ते के । दिहिः दिह उपचये । दुहिः दुह प्रपूरणे । दुहिरिति दुहिर अर्दने भौवादिको न गृह्यते सानुबन्धकत्वात्।आदादिक एवानिडिति प्राञ्चः। मेहतिरोहती। मिह सेचने । रुह बीजजन्मान प्रादुर्भाव च । वहिः वह प्रापणे। तु पुनः षष्ठो नहिः। णह बन्धने । दहतिः दह भस्मीकरणे । तथा लिहिः लिह आस्वादने ॥५॥ पुराणगाः प्राचीना विद्वांसःगणपाठेषु शान्तान् अनिट्कान् दशव पठन्ति । इतरान्न । तान् कान्। दिर्शि दिश अतिसर्जने । दृशिं दृशिर प्रेक्षणे ॥ दाशिं दंश दशने । अथो मृशिं मृश आमर्शने ॥ स्पृशिं स्पृश संस्पर्शने ॥ रिशिं काशं रिश रुश हिंसायाम् ॥ अष्टमं क्रोशर्ति क्रुश आह्वाने रोदने च ॥ विशिं विश प्रवेशने ॥ लिशिं लिश अल्पाभावे दिवादिस्थो लिश गतौ तुदादिस्थ इत्युभयम् ॥ ६ ॥ तथा धान्ता धातव इमे दशानिटो मताः कथिताः । ते के । रुधिः रुधिर आवरणे, अनो रुध कामे इति देवादिक इत्युभयम् ।। सराधिः राध संसिद्धौ॥ युधिवन्धिसाधयः युध संप्रहारे । बन्ध बन्धने । साध संसिद्धौ। धिक्षुधी क्रुध कोपे । क्षुध बुभुक्षायाम् ॥ शुध्यतिबुध्यती शुध शौचे । बुध अवगमने देवादिको । बुधिर बोधने इति बुध अवगमने इत्येतो भौवादिको तु सेटौ ॥ व्यधिः व्यध ताड़ने ॥ततः परं सिध्यतिरेव । विधु संराद्धौ। अनिट्। विधु गत्याम्। पिधू शास्त्रे माङ्गल्ये चैतौ भौवादिकौ सेटौ॥७॥गणेषुगणपाठेषु अनिाविधौअनिट्टप्रकरणेषान्तान् इमान् दशैवाचार्या उपदिशन्ति तान् कान् शिषि शिष्ल विशेषणे । पिर्षि पिषल संचूर्णने॥ शुष्यतिपुष्यती । शुष शोषणे। पुष पुष्टौ। देवादिकावनिटौ।भौवादिकासेट्। विषि विष दीप्तौ॥विषि विष्ल व्याप्तौ।जौहोत्यादिकः॥श्लिषि श्लिष आलिङ्गने। श्लिष दाहे भौवादिकः सेट्॥तुष्यातिदुष्यती । तुष तुष्टौ । दुष वैकृत्ये। देवादिकौ ॥ द्विर्षि द्विष अप्रीतौ । तथा कृषिकर्षती । कृष विलेखने । भौवादिकतौदादिकौ ॥ ८ ॥ स्वरेण नीचेन अनुदात्तस्वरेण गणितान पान्तान् अनिटस्त्रयोदश वंप्रतीहि जानीहि । तानाहतपिं तप संतापे । तप ऐश्वर्ये । देवादिकः। तप दाहे इति चौरादिकोऽपि । जिप्रत्ययाभावपक्षेऽनिट । तिपिं तिपृ क्षरणे॥च पुनः आपिम् आप्ल व्याप्तौ॥ अथो वर्षि टुवा