________________
(३४)
सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः ] बीजतन्तुसंताने ॥ स्वपिं त्रिष्वप शये ॥ लिपि लिप उपदेहे ॥ लुपिं लुप्ल छेदने ।। तृप्यतिदृप्यती । तृप् प्रीणने । दृप् हर्षमोहनयोः। एतौ देवादिकावनिटौ। तृप् तृप्तौ । दृप उत्क्लेशे । एतौ तौदादिको सेटौ। तृप तृप्तौ । दृप संदीपने । एतौ चौरादिको च सेटौ ॥ सृपि सृपूल गतौ ॥ शपिं शप आक्रोशे ।शप् उपालम्भे च॥छुपिं छुप स्पर्शे ॥ क्षिपि क्षिप प्रेरणे । देवादिकस्तौदादिकश्चानिट ॥९॥ दान्तान् धातून आनिटः पञ्चदश त्वं प्रतीहि अवहि । तानाह-अदि अद भक्षणे॥हदिहद पुरीपोत्सर्गे ॥ स्कन्दिभिदिच्छिदिक्षुदीन् । स्कन्दिर गतिशोषणयोः । भिदिर विदारणे । छिदिर द्वैधीकरणे । क्षुदिर संचूर्णने ॥ शदि शद्ल शातने । सार्द षद्ल विशरणादौ । स्विद्यतिपद्यती । जिविदा गात्रप्रक्षरणे, पद गती देवादिको । जिष्विदा स्नेहनमोचनयोः । भौतादिकः सेट् । पद गतौ चौरादिकः सेट । खिदि खिद दैन्ये । खिद परिघाते।रोधादिको देवादिकस्तौदादिकश्चानिट् ॥ नुदि नुद प्रेरणे ॥ तुाद तुद व्यथने ॥ विद्यविनत्तिकावपि । विद् सत्तायां देवादिः। विद विचारणे रौधादिकः । विद ज्ञाने । विद्ल लाभे । एतो सेटौ॥ विद्यविनत्ती एव विद्यविनत्तिको स्वार्थे कप्रत्ययः ॥१०॥ न विद्यते इट् स्वरों येभ्यस्तेऽनिटस्वराः तान् धातून् त्वं विद्धि जानीहि । तानाह-पचिं डुपचष् पाके ॥ पचिव्यक्तीकरणे च सेट् ॥ वचिं वच परिभाषणे । ब्रुवो वचिरपि ॥ विचिरिचिरञ्चिपृ: च्छतीन् । विचिर पृथग्भावे । रिचिर विरेचने। रिच वियोजनसंपर्चनयोरिति च । रन रागे। प्रच्छ जीप्सायाम्॥निजि णिजिर शौचपोषणयोः। णिजि शुद्धौआदादिकः सेट। सिचिं षिच क्षरणे॥मुचि-भजि-भञ्जि-भृजतीन् । मुचल मोक्षणे।भज सेवायाम्।भञ्जी आमर्दने । भ्रस्ज पाकात्याजि त्यज हानौ ॥ यजिं यज देवपूजादौ ॥ युजिरुजिसञ्जिमज्जतीन् । युजिर योगे । युज समाधौ इति च । भाष्यमते युज समाधौ सेट् । रुजरोगे। पञ्ज सङ्गे। टुमस्जो शुद्धौ । भुजिं भुज पालनाभ्यवहारयोः। भुजोकौटिल्ये इति च। स्वर्जि स्वञ्ज परिष्वङ्गे॥जिविजि । समाहारे एकवचनम् । सृज विसर्गे। देवादिकस्तौदादिकश्चानिट। विजिर पृथग्भावे । ओविजी भयचलनयोः। तौदादिका सेट् ॥ चान्ताः षट् । छान्त एकः। जान्ताः पञ्चदश ॥ ११ ॥ . (तत्त्वदी०)-अनुदात्तस्वरान्संगृह्णाति ॥ अनिट्स्व रान्त इत्यादिना॥ न इट् यस्मात् सोऽनिट स्वरोऽन्तो यस्य स स्वरान्तः स्वरान्तो धातुरनिट् भवति इति दृश्यतामित्यन्वयः॥ इमानिति॥ स्वरान्तेषु इमान् वक्ष्यमाणान् सेटः प्रवदन्ति । तानाह-अदन्तमिति ॥ अदन्ताः कथ इत्यादयः। ऋदन्ताः स्तृप्रभृतयः । ऋतामिति ॥ ऋदन्तानां मध्ये वृसंभक्तौ वृवरणे । टुओश्वि इर गतिवृद्धयोः । डीङ् विहायसा गतौ । शीङ् श्वप्ने । श्रिञ् सेवायाम् ।ऊदन्ता भूप्रभृतयः।रु शब्दे । रुङ्गतौ रेषणे च । ष्णु प्रस्रवणे । टुक्षु शब्दे । ऊर्गुञ् आच्छादने । न चोर्णोतस्विरत्वात्प्राप्तिरेव न संभवति कारिकायां ग्रहणं किमर्थमिति वाच्यम् ऊोतेर्ने डिति निषेधादत्र ग्रहणम् । एतद्बीजं तु वाच्यम् । ऊर्णोतेणुवद्भाव इत्यादिशेषोक्तिरेवेति दिक् । युमिश्रणामिश्रणयोः। णु स्तुतौणु तेजने ॥