________________
[ आख्याते भ्वादयः ]
टीकाद्वयोपेता |
( ३९ )
स्वरान्तानुक्त्वेदानीं हसान्तान् कान्नादिक्रमेणाह - शक्ल शक्तौ एक एव कान्तेषु नान्य इत्यर्थः । खगघङान्तानां न सन्त्येव । वाल अदने । वस निवासे । द्वावेव सान्तेषु नान्य इत्यर्थः । अदादेशस्य घसेस्तु स्थान्यनिट्त्वेनैव सिद्धम् । रम रामस्ये । यभ मैथुने । डुलभष् प्राप्तौ । भान्तेषु त्रय एव नापरे इत्यर्थः । यमु उपरमे। रमु क्रीडयाम् । मन ज्ञाने । णम प्रहृत्वे शब्दे च । गम्ऌ गतौ । मान्ते चत्वार एव । मन ज्ञाने दिवादिः । हन हिंसागत्योः । तान्तेषु द्वावेव । प्रतिषेधवाचिनाम् । अनिटामिन्यर्थः । दिह उपचये । दुह प्रपूरणे । मिह सेचने । रुह बीजजन्मनि प्रादुर्भावे । वह प्रापणे । णह बन्धने । दह भस्मीकरणे । लिह आस्वादने । हान्तेषु अष्टावनिटः प्रकीर्तिताः कथिता इत्यर्थः ॥ मुक्तः संशयो येषु ते तथा । गणेषु प्रविभज्य गणविभागेनेत्यर्थः । दिश अतिसर्जने । दृशिर् प्रेक्षेणे । देश दशने । मृश आमर्शने । स्पृश संस्पर्शे । रिश रुश हिंसायाम् । कुश आह्वाने । विश प्रवेशने लिश गतौ । लिश अल्पीभावे । धान्तेषु दश ॥ रुधिर् आवरणे । अनोरुध कामे इति दिवादिश्च । सराधिः राधः संसिद्धावेतत्सहितः युध संप्रहारे । बन्ध बन्धने । साध संसिद्धौ । क्रुध क्रोधे । क्षुध बुभुक्षायाम् । शुध शौचे । बुध वगमने । दिबादयः ॥ व्यध ताडने । षिध संराद्धौ । धान्तेष्वेकादश इतरे नेत्यर्थः । शिषूल विशेषणे । पिष्ट संचूर्णने । शुष शोषणे । पुष पुष्टौ । दिबादी । विष दीप्तौ । विष्ट व्याप्तौ । श्लि आलिङ्गने । तुष तुष्टौ । दुष वैकृत्ये । दिवादी । द्विष अप्रीतौ कृषि विलेखने । भौवादिकतौदादि कौ । षान्तेष्वेकादश ॥ तप संतापे । तप् ऐश्वर्ये । दिवादिः । दाहे इत्यपि ञ्यभावपक्षे । तिपृक्षरगे । आपूल व्याप्तौ । टुवप् बीजतन्तुसंताने । ञिष्वप् शये । लिपउपदेहे । लुप्ऌ छेदने । तृप प्रीणने । दृप हर्षविमोहनयोः । दिवादी । सृ गतौ । स्वरेण नीचेन अनुदात्तेनेत्यर्थः । शप उपालम्भे छुप स्पर्शे । क्षिप प्रेरणे । दिवादिस्तुदादिश्च । पान्तान् त्रयोदश प्रतीहि जानीहि | अद भक्षणे । हद पुरीषोत्सर्गे । रकन्दिर् गतिशोषणयोः । भिदिर विदारणे । छिदिद्वैधीकरणे । क्षुदिर् संपेषणे । शल शातने । षद्ऌ विशरणादिषु । ञिष्विदा गात्रप्रक्षरणे । पद गतौ। दिवादी। खिद दैन्ये । खियति । खिन्दति । खिनत्तिश्च । नुद प्रेरणे । तुद व्यथने । विद सत्तायाम् । विद विचारणे । दा तेषु पञ्चदश ॥ डुपचूष पाके । चि व्यक्तीकरणे द्वावपि । वच परिभाषणे । ब्रुवो बंचिरपि । विचिर् पृथग्भावे । रिचिर् विरेके । विच वियोजनसंपर्च्चनयेरिति। षिच क्षरणे । मुल मोचने । चान्तेषु षट् ॥ प्रच्छ ज्ञीप्सायाम् । छान्तेष्वेकः ॥ त्यज हानौ । णिजिर् शौचपोषणयोः । भज सेवायाम् । भो आमर्दने । भुज पालनाभ्यवहारयोः । भुजो कौटिल्ये इति च । भ्रस्ज पाके । टुमस्जो शुद्धौ । यज पूजादौ । युजिर् योगे । रुजो भङ्गे । रञ्ज रागे । विजिर् पृथभावें । ष्वञ्ज परिष्वङ्गे । षञ्ज सं । सृज विसर्गे । जान्तेषु पञ्चदश । अनिट्स्वरान् अनुदात्तानित्यर्थः ।
I
वेत्ता | अवैषीत् ॥ क्षिक्षये चिक्षयिथ- चिक्षेथ ॥
( सुबोधिनी ) - स्वरान्तादत्वतश्चेति वेट् । विवयिथ - विवेथ । आजिथ । विव्यिव । विव्यम | वीयात् । लुटि वेत्ता - अजिता । वेष्यति - अजिष्यति । अवेष्यत् - आजिष्यत् । धातोर्नामिन इति वृद्धिः । अवैषीत्-आजीत् ॥ क्षि क्षये । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः नुधातोरिती । चिक्षियतुः ॥