________________
[ आख्याते पदव्यवस्था ०
( १७८ )
सिद्धान्तचन्द्रिका |
(तत्त्वदी०) तताच्छील्य इति ॥ गतं प्रकार || पैतृकमश्वा अनुहरन्त इति । पितुः प्रकारं सततं परिशीलयन्तीत्यर्थः । गतं गमनं तस्य ताच्छील्य इति व्याख्याने तु "अयं कः संबन्धो यदनुहरते तस्य कुमुदम्" इत्यादावव्याप्तिः स्यात् ॥
]
किरते हर्षजीविकाकुलायकरणेषु )
(सुबोधिनी) - किरते हर्षजीविकाकुलाय करणेषु॥ किरतेरात्स्यादेषु वाच्येषु हर्षादयो विषयाः । तत्र हर्षो विक्षेपस्य कारणमितरे फले ॥
(तत्त्वदी ० ) - करतेरिति ॥ क विक्षेपे हर्षादयो विषयत्वेनोपादीयन्ते । तत्र हर्षो विक्षपस्य कारणम् । इतरे फले ॥
(अपात्किरतेः सुट् चतुष्पाच्छक निकर्तृके आलेखने) अपस्कि रते वृषो दृष्टः । कुक्कुटो भक्षार्थी । श्वाऽऽश्रयार्थी च । हर्षादिष्विति किम् । अपकिरति कुसुमं वायुः ॥
(सुबोधिनी) - अपात्किरतेः सुट् चतुष्पाच्छकुनिकर्तृके आलेखने ॥ अपात्किरतेः सुट् स्याद्धर्षादिष्वेव । चतुष्पाच्छकुनिकर्तृके आलेखने सति ॥ अपरिकरते वृषो हृष्टः । हर्षेण भूमि विलिखतीत्यर्थः । हर्षादिष्विति किम् । अपकिरति कुसुमम् । इहात्सुटौ न । हर्षादिमात्रविवक्षायां यद्यप्यात्मनेपदं प्राप्तं तथापि सुडभावे नेष्यत इत्याहुः । गजोsपकिरति । अत्र हर्षे सत्या लेखनाभावात्सुटोऽप्राप्तिः ॥ (तत्त्वदी ० ) - अपस्किरते वृषो हृष्ट-ति ॥ हर्षेण भूमिं विलिखतीत्यर्थः ।
( आङ नुप्रच्छो: ) आनुते । आपृच्छते ॥
( सुबोधिनी ) - आङो नुप्रच्छोः ॥ आङः परावेतावात्वन्तौ भवतः । णु स्तुतौ अदादिः । प्रच्छ ज्ञीप्सायाम् तुदादिः ॥
( तत्त्वदी ० ) - आङ इति । णु स्तुतौ अदादिः । प्रच्छज्ञीप्सायां तुदादिः ॥ आनुते - इति ॥ उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः ॥
(शप उपालम्भे ) विप्राय शपते ॥
( सुबोधिनी ) - शप उपालम्भे ॥ आक्रोशार्थे स्वरितेतः शपः परगामिफले शपथरूपेऽर्थे आत्मनेपदं भवति । कृष्णाय शपते । लाहुङइति संप्रदानसंज्ञा ॥
( तत्त्वदी० ) उपालम्भ इति ॥ शपथ इत्यर्थः । स च वाचा शरीरस्पर्शनरूपः॥ विप्राय शत इति ॥ वत्पाद स्पृशामि नैतन्मया कृतमित्येवं शपथेन विप्रस्य स्वाभिप्रायं प्रकाशयतीत्यर्थः ॥ 'सख्यः शपामि यदि किंचिदिह स्मरामि' इत्यत्र तु स्वाशयप्रकाशनमात्रं विवक्षितं न तु शपथ रूपमपीत्यदोषः ॥
(समवप्रविभ्यः स्थः ) संतिष्ठते । समस्थित ॥ अवतिष्ठते ॥ प्रतिष्ठते ॥ वितिष्ठते ॥