________________
[ आख्याते पदव्यवस्था •
टीकाद्वयोपेता
(१७७)
( परिव्यवेभ्यः क्रियः ) परिक्रीणीते । विक्रीणीते। अवक्रीणीते ॥ (सुबोधिनी ) - परिव्यवेभ्यः क्रियः ॥ परगामिफलार्थमिदमात्मनेपदम् ॥ ( विपराभ्यां जेः ) विजयते । व्यजेष्ट ॥ पराजयते ॥ (सुबोधिनी) - विपराभ्यां जेः ॥ आभ्यां परो जयतिरात्वान् ॥ ( आङो दाञो न तु विकसने ) विद्यामादत्ते आदित । विकसने तु व्याददाति मुखं कृष्णः । पराङ्गकर्मकाद्भवत्येव । व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥
( सुबोधिनी) - आङ दाओ न तु विकसने ॥ परगामिफलार्थमिदम् । आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् ॥ विद्यामादत्ते ॥
( क्रीड आङनु सम्परिभ्यः ) आक्रीडते । अनुक्रीडते । परिक्रीडते ॥ ( सुबोधिनी ) - क्रीड आङनुसम्परिभ्यः ॥ तृतीयार्थस्यानोयोंगे नात्मनेपदम् ॥ माणवकमनुक्रीडति । तेन सहेत्यर्थः ॥
( समोडकूजने ) संक्रीडते । कूजने तु । संक्रीडति रथचक्रम् ॥ (सुबोधिनी ) - समोऽकूजने ॥ समः परः क्रीडतिरात्वानकूजनेऽर्थे ॥ ( आगमेः क्षमायाम् ) आगमयस्व तावत् ॥
(सुबोधिनी ) - आगमेः क्षमायाम् ॥ आङ्पूर्वात् ञ्यन्ताद्रमेरात्स्यात् क्षमा| आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः ॥
( तत्त्वदी ० ) - आगमेः क्षमायाम् ॥ गमेरिति त्र्यन्तस्य ग्रहणम् । क्षमा प्रतीक्षा ॥ आगमयस्वेति ॥ मा त्वरिष्ठा इत्यर्थः ॥
( शिक्षेर्जिज्ञासायाम् ) धनुषि शिक्षते ॥
(सुबोधिनी)-- शिक्षेर्जिज्ञासायाम् ॥ शिक्ष विद्योपादाने इत्यस्य नेह ग्रहणम् । अनुदात्तत्वादेवात्मनेपदसिद्धेः । किंतु शकेः सान्तस्येह ग्रहणम् । धनुषि शिक्षते । धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥
( तत्त्वदी० ) - धनुषि शिक्षत इति ॥ धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥ ( हरतेर्गतताच्छील्ये ) पतृकमश्वा अनुहरन्ते । मातृकं गावः ॥ (सुबोधिनी ) - हरतेर्गतताच्छील्ये ॥ गतं प्रकारः सादृश्यमिति यावत् । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुर्मातुश्च सादृश्यं सततं परिशीलयन्तीत्यर्थः ॥ ताच्छील्ये किम् । मातुरनुहरति । इह सादृश्यमात्रं विवक्षितं न तु प्रकारताच्छील्यम् ।
મ