________________
( १७३ )
सिद्धान्तचन्द्रिका |
[ आख्याते पदव्यवस्था ]
( तत्त्वदी० ) - कण्ड्रादिभ्यो यगिति ॥ कङ्कादयो हि द्विविधाः । धातवो नामानि तत्र धातुभ्यो नित्यं यक् । नाम्नां तु कण्डूं करोतीति विग्रह एव ॥
कृतायामिह टीकायां लोकेशकरशर्मणा । बाधनं दुष्टबुद्धीनाम गात्कण्डादिसाधनम् ॥ इति तत्त्वदीपिकायां कण्ड्रादिप्रक्रिया ॥ ६ ॥
अथ प्रत्ययमाला ।
कण्डूयतेः सप्रत्यये द्विश्वेति प्रथमस्य द्वित्वे प्राप्ते कण्डादेस्तृतीयस्य द्वित्वम् । कण्डूयियिषति । यप्रत्ययान्तात्सप्रत्यये तु यथेष्टं नामधातुषु द्वित्वमित्याद्यानां त्रयाणामन्यतमस्य द्विखं भवति।स्वराद्वेस्त्वाद्येतरस्य द्वित्वम्। पुत्रीयितुमिच्छति -पुत्रीयिषति - पुतित्रीयिषति । पुत्रीययिषति ॥ अशिश्वयिषति । अश्वीयियिषति ॥ आत्मन इन्द्रमिच्छति इन्द्रीयति । इन्द्रीयतेः सप्रत्यये द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्री - यिषति । इन्द्रीयियिषति ॥ ञ्यन्तात्सप्रत्यये तु प्रियशब्दात् जाविष्ठवद्भावेन मियशब्दस्य प्रादेशस्ततो द्वित्वादि । प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छाते । पिप्रापियिषति । प्रापिपयिषति । प्रापयियिषति ॥ यसज्यन्तात्सप्रत्यये तु बोभूयिषयिषति ॥ यङजिसान्तात् ञिप्रत्यये तु । बोभूययिषयति ॥
इति प्रत्ययमाला |
अथ पदव्यवस्था ।
(निविशादेः ) निपूर्वाद्विशादेर्धातोरात् ॥ निविशते ॥
(सुबोधिनी) - निविशादेः । निपूर्वो विशः । नेः परो विश इति वा निविंशः स आदिर्यस्य स निविशादिस्तस्मादात्स्यात् । आदिशब्दः प्रकारे । विश इत्यत्र अकार उच्चारणार्थः । ‘निविशते याद शूकशिखा पदे' इति श्रीहर्षः । नि किम् । प्रविशति । अर्थवद्ग्रहणलक्षणप्रतिपदोक्त परिभाषाभ्यां नेरुपसर्गस्य ग्रहणम् । तेनेह न । मधुनि विशन्ति भ्रमराः ॥
(तत्त्वदी ० ) - निविशादेः ॥ निपूर्वो विशः नेः परो विश इति वा । विशोऽकार उच्चार-णार्थः असंदेहार्थं वा । तेन पदकार्यवारणम् । अन्यथा निविडादेरित्युक्ते विश् वा विडू भेदने वेति संदेहः स्यात् । निविश आदिर्यस्येति स तथा तस्मात् । अत्रादिशब्दः प्रकारे । तेन निविशदृशादिति बोध्यम् । सादृश्यं चोपसर्गपूर्वत्वम् । निविशादिगणाभावाद्वयवस्थावाचिन आदिशब्दस्य ग्रहणं न । तेन नयतीति नि कुलं विशतीत्यत्र न भवति । एवं वेतीति वि कुलं जयतीत्यत्र न । पराजयति । दूनात्मोत्तमाः परा ॥