________________
[ आख्याते कण्ड्वादिप्र०] टीकाद्वयोपेता । -
( १७५) चष्टे दीर्घस्य द्राधः। द्रावयति।अदद्राघत् ॥ वृन्दारकमाचष्टे वृन्दारकस्य वृन्दः।वृन्दयति । अववृन्दत् ॥ ॥ इति सुबोधिन्यां नामधातुप्रक्रिया ॥ __ ( तत्त्वदी०)--अर्थवेदत्यादि। अत्र करण इत्युनुवृत्तं क्रियाविशेषोपलक्षणम् । तेनार्थमाचष्ट इत्यादि विग्रहः। आत्वेनैव सिद्ध आपुक्करणमन्यतोऽपि विधानार्थम्।तेन लिखापयतीत्यादि सिद्धम्॥ अपिप्रथदिति ॥ वृद्धावीकारे कृते ततो लोपः । अवलोपित्वाभावादकार्यम् ।। त्वादयति मादयतीति ॥ नो वेत्यत्र वा इत्यस्य व्यवस्थितत्वात्कचिन्न टिलोपः ॥ विद्वयतीति॥ आदौ टिलोपः। पुनरङ्गवृत्तपरिभाषया संप्रसारण न ॥ विदावयतीति॥टिलो कृते संप्रसारणे वृदयाबादेशौ ॥ सकृत्प्रवृत्तत्वात्पुनष्टिलोपाप्रसंगः ॥ विदयतीति ॥ संप्रसारणे कृते टिलोप इति पक्षे ।। उदीचयतीति ॥ टिलोपो न व्यवस्थितत्वात्॥ तिराययतीति।आदौ टिलोपस्ततस्तिर्यादेशस्ततो वृद्धयायादेशौ । पुनष्टिलोपस्तु सकृत्प्रवृत्तत्वान्न॥अतितिरायदिति। अवलोपित्वादुएधाह्रस्वोऽपि न । कृतायामिह टीकायां लोकेशकरशर्मणा । समासेनेदमभवन्नामधातुसमापनम् ॥
इति तत्वदीपिकायां नामधातुप्रक्रिया ॥ ५ ॥
अथ कण्डादिप्रक्रिया। ( कण्ड्वादिभ्यो धातुभ्यो यक स्वार्थे ) कण्डूञ् गात्रविघर्षणे । कण्डूयतिं । कण्ट्रयते॥ मन्तु अपराधे रोष च । मन्तूयति। अिदित्येके । मन्तूयते ॥ वल्गु पूजामाधुर्ययोः । वल्गूयति ॥ अस असु असू उपतापे । अस्याति । अनपि च हसात् । असाञ्चकार ॥ असूयति । असूयते ॥ लला दीप्तौ । लेलायति ॥ मेधा आशुग्रहणे । मेधायति ॥ सुख दुःख तत्क्रियायाम् । सुख्यति । दुःख्यति ॥ सपर पूजायाम् । सपर्यति सपराञ्चकार ॥ भिषग चिकित्सायाम् । भिषज्यति ॥ इषुध् शरधारणे । इषुध्यति ऐषुधीत् ॥ गद्गद वाक्स्खलने । गद्गद्यति ॥ एला केला खेला विलासे । एलायति । केलायति । खेलायति ॥ हणी रोषणे लज्जायां च । हृणीयते ॥ महीङ् पूजायाम् । महीयते ॥ अगद नीरोगत्वे ॥ अगद्यति । आगदीत् ॥ इति कण्ड्वादिप्रक्रिया ॥
(सुबोधिनी)-कण्डादिभ्यो धातुभ्यो यक् स्वार्थे।एभ्यो धातुभ्यो नियं यक स्यात् स्वार्थे।॥ कण्ड्वादयो द्विधा । धातवः प्रातिपदिकानि च । नाम्नां तु विग्रह एव ॥ सपर पूजायाम् । यगन्तात् षिद्भिदामङ इत्यनेनाप्रत्यये आप् ॥ सपर्या ।। महीङ् पूजायाम् । महीयते । पूजां लभत इत्यर्थः । आकृतिगणोऽयम् ॥ इति सुबोधिन्यां कण्ड्ादिप्रक्रिया ॥