________________
( १७४ )
सिद्धान्तचन्द्रिका |
[ आख्याते नामधातुप्र ० J
दीर्घम् द्राघति । अदद्राघत् ॥ वृन्दारकम् वृन्दयति । अववृन्दत् ॥ इति नामधातुप्रक्रिया ॥
(सुबोधिनी) - अर्थवेदसत्यानामापुरा ॐ ॥ एषामापुगागमः स्यात् त्रिप्रत्यये परे॥ अर्थमाचष्टे करोति वा अर्थापयति । एनीमाचष्टे त्रिप्रत्यये टिलोपः । ततो निमित्ताभावे नैमित्तिकस्याप्यभाव इतीपोऽभावे नस्याप्यभावः । एतयति ॥ पृथुमाचष्ट ऋ र इमनीति रभावे टिलोपे च प्रथयति । लुङि वृद्धौ सत्यां टिलोपः । अय्वृलोपित्वाभावादङि लवाविति पूर्वस्येत्वम् । अपिप्रथत् वृद्धेः पूर्वं टिलोपे खय्वलोपित्वादित्वं न । अपप्रथत् ॥ मृदुमाचष्टे आविष्ठवद्भावात् ऋ र इमनीति रभावे टिलोपे च म्रदयति ॥ एवं भृशकृशदृढादयः ॥ त्वां मां वाचष्टे टिलोपे 'त्वन्मदेकत्वे' इति त्वन्मदादेशे च कृत अत उपधाया इति वृद्धौ त्वादयति । मादयति ॥ युवामावां युष्मानस्मान् वाऽचष्टे वि भक्तिपरत्वाभावान्न युवावौ । टिलोपे सति युष्मयति । अस्मयति ॥ इवानमाचष्टे - विष्ठवद्भावात् शुनो वस्य उर्वा च दीर्घ इत्युत्वे टिलोपाभावे च शुनयतीतिरूपं केचिदाहुः टिलोपे उत्वे च वृद्धौ सत्यां शावयति । लुङि अय्वृलोपित्वान्न ह्रस्वः । अशुशावत् ॥ विद्वांसमाचष्टे टिलोपे विद्वयति । टिलोपे कृते वसोर्व उरित्युत्वे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वात्पूर्वमुत्वं पश्चाट्टिलोपः । विदद्यतीत्यपरे । उदञ्चमाचष्टे । जाविष्ठवद्भावात् तिरश्चादद्य इत्युदीच् । उदीच्यतीत्यत्रोपसर्ग पृथक्कृत्य अच्शब्दादेव ञिः॥ बहुलग्रहणाट्टिलोपो न । लुङि उपसर्गसमानाकार मितीकारात्पूर्वमटि चिशब्दस्य द्वित्वे पश्चात् जेरिति ञिलोपः । उदैचिचत् ॥ प्रत्यञ्चमाचष्टे अचेदिधिश्चेत्यलोपपूर्वदीच प्रतीचयति । लुङि चिशब्दात्प्रागटि कृते पूर्वस्य यत्वम् । प्रत्यचिचत् । वृणामसवर्णे स्वर इति प्रकृतिभावपक्षे तु प्रतिअचिचत्॥ सम्यञ्चमाचष्टे अचेदीर्घश्चेत्यलाप पूर्वदीर्घौ ॥ समीचयति । लुङि सम्यचिचत् । प्रकृतिभावपक्षे समिअचिचत् ॥ तिर्यञ्चमाचष्टे अञ्च ष्टिलोपेनापहारेऽपि तस्य बहिरङ्गत्वेनासिद्धत्वात्तिरीत्यस्य सद्भावः । वृद्धौ सत्यां तिराययति । उपसर्गसमानाकारत्वाभावादिह तिरसः पृथक्करणं नास्ति। अतितिरायत् । अङि लघाविति ह्रस्वस्तु नाय्वृलोपित्वात् ॥ सध्यञ्चमाचष्टे टिलोपेनाञ्चरपहारे वृद्धौ सत्यां सध्याययति ॥ अन्तिकमाचष्टे गुर्वादेरित्यन्तिकस्य नेदष्ट्यलोपश्च । यस्येत्यलोपः। नेदयति । लुङि अनिनेदत्॥ वाढमाचष्टे वाढस्य साधः साधयति अससाधत् । वृद्धमाचष्टे वृद्धस्य ज्यादेशः।रातो ञाविति पुक् । ज्यापयति । अजिज्यपत् ॥ वृद्धस्य वर्षोऽपि । वर्षयति । अववर्षत्॥ स्फिरमाचष्टे स्फिरस्य स्फः। वृद्धौ सत्यां रातो जाविति पुक् । स्फापयति अपिस्फवत् ॥ उरुमाचष्टे उरुशब्दस्य वर् । संज्ञापूर्वक विधेरनित्यत्वाद्बाहुलकाद्वा माधवेन विकल्पेन वृद्धिरुदाहृता । वरयति - वारयति । अवीवरत् ॥ बहुलमाचष्टे बहुलस्य बंहः । बंहयति । नो लोप इति नलोपो न । टिलोपस्य स्थानिवत्त्वात् । अय्बूलोपान्नेत्वदीर्घौ । अबव्हत ॥ तृप्रमाचष्टे तृप्रस्य त्रप् । त्रपयति । अतित्रपत् । दीर्घमा -