SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [ आख्याते नामधातुप्र० ] टीकाद्वयता । ( १७३ (सुबोधिनी) - पुच्छादुदसने व्यसने पर्यसने च ञिङ् ॥ पुच्छान्नाम्नो ञिङ् स्यात् ॥ उत् ऊर्ध्वमसनं क्षेपणं उदसनम् । विविधं विरुद्धं वाऽसनं व्यसनम् । परि समन्तादसनं पर्यसनम् । तस्मिन्नर्थे । ङित्त्वादात् । पुच्छमुदस्यति - उत्पुच्छयते ॥ उदपुपुच्छत ॥ (तत्त्वदी ० ) - पुच्छादुदसन इत्यादि ॥ उदसनमुत्क्षेपणम् । विविध विरुद्धं वा क्षेपण व्यसनम् । परितः क्षेपणं पर्यसनम् । (भाण्डात्समाचयने ) संभाण्डयते ॥ ( सुबोधिनी) - भाण्डात्समाचयने ॥ भाण्डात् ञिङ् स्याद्राशीकरणेऽर्थे ॥ संभाण्डयते । लुङि समबभाण्डत ॥ ( तत्त्वदी ० ) - - समाचयनं राशीकरणम् ॥ ( चीवरादर्जने परिधाने च ) चीवराण्यर्जयति परिधत्ते वा संचीवरयते भिक्षुः । ( नाम्नो ञिराचष्टे ) ॥ (सुबोधिनी) - चीवराद ने परिधाने च ॥ ञिङ् । चीवराण्यर्जयति परिधत्ते वा संचीवरयते । लुङि समचिचीवरत ॥ (तत्त्वदी ० ) - संचीवरयते इति ।। अर्जयति परिधत्ते वेत्यर्थः ॥ (अर्थवेदसत्यानामापुगू ञ) अर्थापयति । आर्तीथपत्॥ वेदापयति ॥ सत्यापयति । अससत्यपत् ॥ एतयते । ऐतयत् ॥ पृथुम् । प्रथयति ॥ वृद्धौ सत्यां पूर्व वा टिलोपः अपप्रथत्-अपिप्रथत् ॥ मृदुम् म्रदयति । अमम्रदत् - अभिम्रदत् ॥ भृशम् भ्रशयति । अवभ्रशत् ॥ कृशम् क्रशयति अचक्रशत् ॥ दृढम् द्रढयति । अदद्रत् ॥ परिव्रढयति । पर्यवव्रढत ॥ त्वादयति । अतित्वदत् ॥ मादयति । अममिदत् ॥ युष्मयति । अयुयुष्मत् । अस्मयति । आसिस्मत् ॥ विद्वांसम् - विद्वयति । अविविदत् ॥ विदावयतीत्यपरे । अविविदावत् । विदयति इत्यन्ये । अविविदत् ॥ एवं श्वानमाचष्टे श्वयति । अशिश्वत् । शावयतीत्यपरे । अशुशावत । शुनयतीत्यन्ये । अशूशुनत् ॥ उदश्चम् उदीचयति । उदैचिचत् ॥ प्रत्यञ्चम् प्रतीचयति । प्रत्यचिचत् ॥ सम्यञ्चम् नमीचयति । सम्यचिचत् ॥ तिर्यञ्चम् ति - राययाते । अतितिरायत् ॥ सभ्यञ्चम् सधाययति । अससश्रायत् ॥ अन्तिकम् नेदयति । अनिनेदत् ॥ बाढम् साधयति ॥ वृद्धम् ज्यापयति । अजिज्यपत् ॥ वृद्धम् वर्षयति ॥ स्फिरम् स्फापयति । अपिस्फषत् ॥ उरुम् वरयति ॥ बहुलम् बंहयति ॥ तृप्रम् त्रपयति ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy