________________
( १७२ )
सिद्धान्तचन्द्रिका ।
[ आख्याते नामधातुप्र० 1
(तत्त्वदी० ) -- आचारउपमानादिति ॥ आचरणमा चारः । चरेर्भावे घञ् व्यवहारो ज्ञानं वा उपमीयतेऽनेनेत्युपमानम्। पुत्रीयति शिष्यमुपाध्याय इति । पुत्रविषयकयज्ज्ञानव्यवहारो वा तत्सदृशं शिष्याभिन्नाश्रयं यज्ज्ञानं व्यवहारो वा तदनुकूलो वर्तम नकालिक एक गुर्वभिन्नाश्रयको व्यापारः । प्रासादाभिन्नाश्रयं यज्ज्ञानं व्यवहारो वा तत्सदृशं कुटुमिनाश्रयं यज्ज्ञानं व्यवहारो वा तदनुकूल एकाभिन्नाश्रयो वर्तमानकालिको व्यापारः ॥
( भृशादिभ्योऽभूततद्भावे यङन्त्यहसलोपश्च ) अमृशो भृशो भवति भृशायते ॥ अशश्वच्छश्वद्भवति शश्वायते ॥
(सुबोधिनी) - भृशादिभ्योऽभूततद्भावे यङन्त्यह सलोपश्च ॥ भृशादिभ्यो यङ् स्यात् तस्मिन् परे भृशादीनामन्त्यस्य हसस्य लोपश्चाभूततद्भावेऽर्थे ॥ 'ये' इति दीर्घः । भृशायते ॥
( बिपि ) - भृशति ॥
( सुबोधिनी) - क्विपि ॥ भृशादिभ्यः क्विप् स्यादभूततद्भावाऽर्थे ॥ (च्चिरपि ) भृशभिवति । भृश्यभूत् ॥ सुमनायते । उपसर्गसमा - नाकारं पूर्वपदं धातुसंज्ञाहेतौ प्रत्यये चिकीर्षिते पृथक् क्रियते ॥ स्वमनायत । उदमनायत ॥
(सुबोधिनी) - विरपि॥ भृशादिभ्यश्च्विः स्यादभूतताऽर्थे कृभ्वस्तियोगे एव उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाहेतौ प्रत्यये चिकीर्षिते पृथक् क्रियते ॥ धातुसंज्ञाविधायके प्रत्यये कर्तुमिष्टे सति उपसर्गतु पूर्वपदं भिन्नं कर्तव्य - मित्यर्थः ॥ चुरादौ संग्राम युद्धे इति संविशिष्टपाठोऽस्य ज्ञापकः । तेन मनसूशब्दामागट् भवति । स्वमनायत ॥
(तत्त्वदी ० ) -- उपसर्गसमानाकारभित्यादि ॥ अत्र ज्ञापकं तु चुरादिषु संग्राम युद्ध -इत्यत्र संग्राम इति विशिष्टपदम् । अन्यथा ग्राम युद्ध इत्येवापठिष्यत् ॥
( सुखादिभ्यो यङ् कतुरनुभवे) सुखं वेदयते सुखायते ॥ दुःखायते ॥
(सुबोधिनी ) - सुखादिभ्यो यङ् कर्तुरनुभवे ॥ सुख दिभ्यः कर्मभ्योऽनुभवकर्तुरेव चेत्सुखादीनि स्युः ॥ अनुभवशब्दो ज्ञानवाची । तदपेक्षमेव कर्तृत्वम् । कर्ता चेत्सुखादिभिरन्वेति ॥ सुखं वेदयते । 'ये' इति दीर्घः । सुखा पते । कर्तुरिति किम् । सुखं वेदयते परस्य । इह यन्निष्ठ सुखं तद्भिन्ननिष्ठोऽनुभवः ॥
1
(तत्त्वदी ० ) - सुखं वेदयत इति ॥ स्वगतं सुखमनुभवतीत्यर्थः ॥ (पुच्छादने व्यसने पर्यसने च ञिङ् ) उत्पुच्छयते । उदपुपुच्छत ॥ विपुच्छयते ॥ परिपुच्छयते ॥