________________
[ आख्याते नामधातुप्र० ]
टीकाद्वयोपेता ।
( १७१)
पित्रियात् ॥ भूरिवाचरति भवति । बुभाव । अभावति ॥ दुरिवाचरति द्रवति । अद्रावीत् ।
(सुबोधिनी ) - नामधातोर्वृद्धिर्वा सौ ॥ सप्रत्यये परे लुङि कैयटमते न वृद्धिः । माधवस्तु नामधातोरपि वृद्धिमिच्छति । विः पक्षी तद्वदाचरति वयति । लिटि नुधातोरिति यः । विव्यतुः । आशिषि यादादाविति रिङ् । पित्रियात् । 'दादेः पे' इति सिलुक् । भुवः सिलोपे इति भुवो वुगिति च वुक् । आभ्वोरित्यनेनात्वं चास्य न अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । श्रिसुद्धभ्य इति ङे न धातुपाठस्थत्वाभावात् । अद्रावीत् ॥
(तत्त्वदी ० ) - बुभावेति || आम्वोणादौ भुवो वुगिति च न तत्र धातुपाठस्थस्यैव ग्रहणात् ॥ अमस्य क्ङिति झसे || अमान्तस्य धातोर्दीर्घः स्यात्क्ङिति झसे हे च । इदमिवाचरति ॥ इदामति ॥ राजेवाचरति राजानति । राजायते ॥ मन्था इवाचरति मथीनति ॥ ऋभुक्षा इवाचरति ऋभुक्षीणति ॥ द्यौरिवाचरति द्यवति । दुद्याव 1 द्यूयात् द्यविता ॥ क इवाचरति कति । चकौ । चकेत्यन्ये ॥ स्व इवाचरति स्वति । सस्वौ सस्य इत्यन्ये ॥
1
( सुबोधिनी ) - - ञमस्य क्ङिति झसे ॥ अमान्तस्य धातोदीर्घः स्यात् कौं झसादौ हकारे च क्ङिति ॥ झसादौ किति शान्तो दान्त इत्युदाहरणम् । ङिति तु यङ्लुकि तस्प्रत्यये । शंशान्तः । दान्तः ॥ पन्था इवाचरात पथीनति । अत्रान्तरङ्गत्वाद्दीर्घस्ततो न गुणः ॥ द्यौरिवाचरति । क्ङिति झसे क्वाविति वस्य उत्वे गुणावादेशौ । द्यवति ॥ को ब्रह्मा तद्वदाचरति कति । लिटि धातोर्नामिन इति वृद्धौ आत णबूडावित्यौ । चकाविति हरदत्तः । माधवस्तु णपि वृद्धिं बाधित्वा यत इत्यलोपात् चक इति रूपमाह ॥
(तत्त्वदी०) द्यवतीति ॥ क्ङिति झसे काविति वस्योत्वे गुणावादेशौ ॥ चकाविति ॥ आत इत्यत्र आ अत इति च्छित्त्वा अदन्तादपि डौ ॥
आचार उपमानात् ॥ कर्मधारये उपमानादाचारेऽर्थे यप्रत्ययोऽस्य चेकारः॥ पुत्रमिवाचरति पुत्रीयति शिष्यमुपाध्यायः ॥ प्रासा द इवाचरति प्रासादीयति कुटयां भिक्षुः ॥
( सुबोधिनी ) - आचार उपमानात् ॥ नाम्नो य ईचास्येत्यनुवृत्तम् । आचरणमाचारः । चरेर्भावे घञ । ज्ञानं व्यवहारो वा । उपमयितेऽनेनेत्युपमानम् । माङःकरणे युट् । कर्मण उपमानादाधारा दुपमानाच्च नाम्नो यः स्यादाचारेऽर्थे तस्मिन् ये परे पूर्वस्यावर्णस्य ईत्वं च ॥ राजानमिवाचरतीत्यत्र नाम्नो न इति नलोपे कृते ईत्वम् । राजीयति ॥