________________
( १७० . )
सिद्धान्तचन्द्रिका |
[ आख्याते नामधातुप्र०
(सुबोधिनी) - ङि वा सलोपः ॥ सान्तस्य कर्तुः सस्य वा लोपः ॥ ( अप्सरसोजस्सुमनसां नित्यम्) अप्सरायते ॥ ओजायते दुर्बलः ॥ सुमनायते ॥
(सुबोधिनी) - अप्सरसोजस्सुमनसां नित्यम् ॥ ओजःशब्दस्तद्वति वृत्तौ । ओजस्वीवाचरतीति ओजायते ॥
]
( तत्त्वदी ० ) - अप्सरायते इति ॥ अप्सरा इवाचरतीत्यर्थः ॥ ओजायत इति ॥ ओजःप्रभृतयो वृत्तिविषये तद्वति वर्तन्ते ॥
( नाम्न आचारे कि वा ) कृष्ण इवाचरति कृष्णति । अकृष्णत् ॥ अ इवाचरति अति, अतः, अन्ति । एत्, एताम्, एयुः । अतुअतात्, अताम्, अन्तु । अ-अतात्, आत्, आताम्, आन् । आः । लिटि औ, अतुः, उः । इथ । यात् । इता । आसीत्, आसिष्टाम् ॥ मालेवाचरति । मालाति । मालायात् ॥ मालाहि । अमालात् । मालाञ्चकार । मालिता । अमालासीत् ॥ कविरिवाचरति कवयति । अकवयत् ॥
( सुबोधिनी ) - नाम्न आचारे क्विव वा ॥ कर्तुरुपमानान्नाम्नः क्विपू वा स्यादाचारेऽर्थे ॥ नाम त्वबिन्तं ग्राह्यम् । तेन विभक्त्याश्रितं कार्यं न । पक्षे यङ् । कृष्ण इवाचरतीति स धातुरिति धातुत्वात्तिवादिः । 'अदे' इत्यलोपः । कृष्णति ॥ अः कृष्णस्तद्वदाचरति । ‘अद्रे’ इत्य्लोपः । अति । लिटि तु कासादिप्रत्ययादिति सूत्रस्य वृत्तौ प्रत्ययग्रहणम पनीयाने कस्वरत्युक्तेर्नाम् । द्वित्वे 'अदे' इत्यलोपे प्राप्ते परत्वादाभ्वोर्णादाविति पूर्वस्यात्वं तत आतो णन्डाविति डौ । डित्त्वाट्टिलोपः । औ आतोऽनपीत्यालोपे । अतुः । लुङि यमिरमिनमातामितीट्सकौ । आसीत् ॥ मालेवाचरति मालाति । लिट्यनेकस्वरत्वादाम् । मालाञ्चकार । लुङि अमालासीत् ॥ कविरिवाचरति कवयति । कवयाञ्चकार । आशिषि 'ये' इति दीर्घः । कवीयात् ॥
(तत्त्वदी ० ) - नाम्न आचार इति ॥ अत्रासिबन्तं नाम गृह्यते न तु सिबन्तम् । तेन पदकार्यं न ॥ औ इति ॥ सवर्णदीर्घेणानेकस्वरत्वाभावादाम्न । अतुसादिषु दीर्घः । आतोऽनवीत्यालोपः । इता ॥ यत इत्यलोपः । गुणस्तु प्रत्ययावयवत्वान्न । नहि निमित्तं कार्यित्वेनाश्रीयते ॥ आसीदिति ॥ यमिरमीति सगिटौ || मालातीति ॥ लिङ्गविशिष्टपरिभाषया ॥
( नामधातोर्वृद्धिर्वा सौ ) अकवायीत् - अकवयीत् ॥ विरिवाचरति । वया । विवाय, विव्यतुः । अवायीत् अवयीत् ॥ श्रीरिवाचरति । श्रयति । शिश्राय, शिश्रियतुः । अश्रायीत्-अश्रयीत् ॥ पितेवाचरति पितरति । पितराञ्चकार । यादादाविति रिङ् ।