________________
{ आख्याते नामधातुप्र०] टीकाद्वयोपेता । दण्डत् । अल्लोपस्य स्थानिवत्त्व नलोपो न ॥ स्थूलं करोति । गुर्वादारष्ठमयस्सु गरादिष्टयलोपश्चेति । स्थूलस्य स्थाष्टिलोपाभावश्च । स्थवयति । लुङि अतुस्थवत् । आदेशावयवत्वान्न पः॥ दूरं करोति । दूरस्य दव । दवयति । लुङि अदूदवत् । कथं तह 'दूरयत्यवनते विवस्वति' इति । दूरमततीति दूरात् । क्विवन्तः । तं कुर्वतीत्यर्थः ॥ युवानं करोति । युवनशब्दस्य युत् । यवयति । युवाल्पयोः कन्वेति कन् । कनयति । लुङि अयूयवत् । अचीकनत्। जिर्डिदिति सूत्रे बहुलग्रहणं कर्तव्यम् । तस्मादिह सर्वत्र वृद्धयभावः॥ ह्रस्वं करोति । स्वस्य हम्। संज्ञापूर्वकविधेरनित्यत्वाद्वहुलग्रहणाहा न वृद्धिः। माधवेन तु विकल्पेन वृद्धिरुदाहृता । ह्रसयति । अजिह्रसत् ॥ क्षिप्रं करोति । . क्षिप्रस्य क्षेप् । क्षेपयति । अचिक्षिपत् । क्षुद्रं करोति । क्षुद्रस्य क्षोदः। क्षोदयति । अचुक्षुदत् ॥ प्रियं करोति। प्रियस्य प्रः । धातोर्नामिन इति वृद्धौ रातो जाविति पुक प्रापयति । अपिप्रपत् ॥ गुरुं करोति । गुरोर्गर । गरयति । अजीगरत्॥स्थिरं करोति । स्थिरस्य स्थः । स्थापयति । अतिस्थपत् ॥ वहनमूढिस्तामूढिं करोति ऊढयति । ऊढिमाख्यत् औडिढत् ॥
(तत्त्वदी० )-आविष्ठव दिति ॥ इष्ठे यत्कार्यं दृष्ट संभावितं तन्नाम्ना आवतिदिश्यते ।। इष्ठे यथा विन्मतुवतूनां लोपोरभावोगुर्वादेगराधादेशटिलोपौ तथा आवपीति बोध्यम्॥ दवयतीति ॥ दूरं करोति इति विग्रहवाकाम् । संज्ञापूर्वकत्वेनानित्यत्वादृद्धयऽभावः। टिलोपस्यासिद्धत्वाद्वा । 'दूरयत्यवनते विवस्वति' इत्यत्र तु वेत्यनुवर्य व्यवस्थयाऽभावः । यद्वा दूरमतति दूरात् । तं कुर्वतीत्यर्थः ॥प्रापयतीति ॥ यस्य प्रादेशे वृद्धिपुकौ । आदेशाभावे प्रिययतीत्यपि ॥
(अडि पूर्वढस्य जो वा) औजिढत्-औडिढत् ॥ ऊढं करोति । ऊढयति । औजढत्-औडढत् ॥
सुबोधिनी)-आङ पूर्वन्य जो वा । पूर्वरूपस्थस्य ढकारस्य जो वा भवति अप्रत्यये परे ॥ औजिढत् ।। ऊढं करोति ऊढयति । लुङि ढिलोपे च सति त्रिसहितस्य द्वित्वे पश्चात्पूर्वाकारो दुर्लभः । अतो बिनिमित्तः स्वरादेश इत्यनेन ढस्य द्वित्वम्। ऊढमाख्यत् । औडढत् । जत्वे औजढत् ॥
कर्तुर्यङ्॥ उपमानात्कर्तुराचारार्थे यङ्॥ श्येन इवाचरति श्येनायते काकः ॥ पण्डितारते मूर्खः ॥ एतायते । यङ्मानिनोरिति पुंवत् ॥ . (सुबोधिनी)-कर्तुर्यङ् ॥ आचारे उपमानादित्यत उपमानादित्यनुवृत्तम्,आचारे इति च । उपमानात्कर्तुर्नाम्न आचारे यङ्॥ आदनुदात्तडित इत्यात् । श्येन इवाचराति । यङ्मानिनोरिति पुंवत । 'ये' इति दीर्घः । श्येनायते ॥
( यङि वा सलोपः) पयायते-पयस्यते वा तक्रम् ॥