________________
(१६८)
सिद्धान्तचन्द्रिका।
आख्याते नामधातुप्र० ]
- (सुबोधिनी)-ऊष्मबाष्पधूमेभ्य उद्वमने॥ एभ्यः कर्मभ्यो यङ् ॥ ऊष्माणमुद्रमति । नाम्नो नो लोपशिति नस्य लोपः । ये इति दीर्घः । ऊष्मायते ॥
(तत्त्वदी०) ऊष्मायत इति ॥ ऊष्माणमुद्रमतीत्यर्थः ॥ . जिडित्करणे ॥ नाम्नो जिप्रत्ययः करणेऽर्थे स च डित् ॥ घट करोति घटयति । घटयते। अजघटत् ॥ पटयति। पटयते । अपपटत् ॥ अय्वृलोपिनो नाकार्यम् ॥ महान्तं करोति महयति । अममहत् ॥ युवानं करोति यवयति । अयूषवत् । कनयति । अचीकनत् ॥
(सुबोधिनी)-भिर्डित्करणे ॥ तत्करोति तदाचष्टे वे यर्थ नाम्नो जिः स च डित् ॥ डिति टेरिति डित्त्वाडिलोपो भवति।घटमाचष्टे घटयति । लुङि अवलोपित्वादजवटत् ॥ पटमाचष्टे पटयति । लुङि परत्वाद्धौ सत्यां टि लोपः।अपीपटत् । भाष्ये तु वृद्धोपो बलीयानित्युक्तम्। तेन पूर्व लोपस्ततोऽवलोपित्व नाकार्यम्। अपपटत् । महान्तमाचष्टे महयति ॥
( तत्त्वदी० )अिर्डित्करणे ॥ ड् इत् यस्य स डित् । अतिदंशोऽयं न तु संज्ञा । तथात्वे तु डिति टेरित्यादावस्यैव ग्रहणं स्यान्न तु ड् इत् यस्य तस्य । कृत्रिमा कृत्रिमयोः कृत्रिमस्थैव ग्रहणमित्युक्तत्वात् । अथ कथं वृत्तिं विनाऽतिदेशबोधनम् इति चेच्छृणु । साडितं डिदित्याह डिद्वदिति गम्यत इति भाष्योक्तेः ॥
(आविष्ठवत्कार्यम् ) स्फिरं करोति स्फापय ते । अपिस्फपत् ॥ उरुम् वरयति । अवीवरत् ॥ बहुलम् बंहयति । अबबंहत् ॥ वृद्धम् वर्षयति । अववर्षत् ॥ तृप्रम् पयति । अतित्रपत् ॥ दीर्घम् द्राघयति । अदद्राघत् ॥ वृन्दारकम् वृन्दयति । आवृन्दत् ॥ अन्तिकम् नेदयति । अनिनेदत् ॥ स्थूलम् स्थवयति । अतुस्थवत् ॥ दूरम् दवयति अदूदवत् ॥ द्वस्वं हसयति । अजिह्वसत् ॥ क्षिप्रम् क्षेपयति । अचिक्षिपत् ॥ क्षुद्रं करोति क्षोदयति । अचुक्षोदत् ॥ प्रियं करोति प्रापयति ॥ अपिप्रपत् ॥ गुरुं करोति गरयति । अजीगरत् ॥ स्थिरं करोति स्थापयति । अतिस्थपत् ॥ ऊटिं करोति ऊढयति । ओरङ् द्विश्च । स्वरादेः परः॥
(सुबोधिनी)-आविष्ठवत्कार्यम्॥इष्ठप्रत्यये परतो यत्कार्यदृष्टं संभावितं च तन्नानो जावप्यतिदिश्यते॥ इष्ठे यथाविन्वतुमतूनां लोपोरभावो गुर्वादेगगद्यादेशटिलोपौ तद्वत् आवाप स्युः॥स्रग्विणमाचष्टे स्रगयति। अग्निमन्तमाचष्टे अग्न यति । दण्डवन्तमाचष्टे दण्डयति । लङि असस्रजत् । अत्र पूर्वस्येत्वं तु न भाष्यासमंतत्वात् । अजिग्नयत्।अद