________________
[ आख्याते नामधातुप्र० टीकाद्वयोपेता।
(१६७) .. (सुबोधिनी)-नानो ये लालसायां सुगसुकौ ॥ नाम्नः सुगसुकावागमौ भवतः यप्रत्यये परे ॥ तृष्णातिरेको लालसा तस्यामर्थे ॥ दधिस्यतीत्यत्र षः स इति विपरीतनिर्देशान्न षत्वम् ॥
(तत्त्वदी.) दधिस्यती ।। षः स इति विपरीतनिर्देशान्न षत्वम् । दधिमधुशब्दावेवागमिनावित्येके । नाम्नो विधानादन्येऽपीत्यन्ये ॥
(मान्ताव्ययाभ्यां काम्यः) किंकाम्यति । स्व:काम्यति । उच्चैःकाम्यति ॥ ___ (सुबोधिनी)-मान्ताव्ययाभ्यां काम्यः॥ मान्तप्रकृतिकान्नाम्नोऽव्ययाच काम्यः स्यादिच्छायाम् ॥ किमिच्छति किंकाम्यति । स्वः स्वर्गमिच्छति स्व:काम्यति ॥
(तत्त्वदी० )-स्वः कार यतीति॥अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिविषये शक्तिमप्राधान्यात्कर्मत्वेन योगः ॥
करणे च नाम्नः॥ करणेऽर्थे यः॥ तपस्यति । तपश्चरतीत्यर्थः ॥
(नमसः पूजायाम् )नमस्यति देवान् । पूजयतीत्यर्थः। (वरिवसः परिचर्यायाम् ) वरिवस्यति गुरुम् । शुश्रूषत इत्यर्थः॥ ___ (सुबोधिनी) करणे च नानः॥ य इत्यनुवृत्तम् । करोत्यर्थे इत्यर्थः।नमस्करोति नमस्यति देवान् । पूजर तीत्यर्थः । वरिवस्यति गुरुम् । शुश्रूषत इत्यर्थः ॥
(तत्त्वदी०) करणे चेति॥करणं कृतिः। न तु पारिभाषिकम् । नमस्यति देवान् । नमस्करोति । जहत्स्वार्थायां वृत्तौ नम शब्दस्यानर्थकत्वात्। अजहत्स्वार्थायां तु प्रत्ययार्थे उपसर्जनत्वान्न तद्योगे चतुर्थी ॥ वरिवस्यतीति ॥ वरिवः शुश्रूषां करोतीति विग्रहः ॥
(शब्दादिभ्यो यड़) शब्दायते । वैरायते । कलहायते । आम्रायते । मेघायते ॥
(सुबोधिनी)-शब्दादिभ्यो यङ् ॥ एभ्यः कर्मभ्यः करोत्यर्थे यङ ॥ शब्द करोति शब्दायते । पक्षे निर्डित्करणे इति जिप्रत्ययोऽपि भवति । शब्दयतीति , न्यासकारः॥
कष्टाय क्रमणे ॥ कष्टायते ॥ ( सुबोधिनी)-कष्टाय क्रमणे ॥ चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे यङ्॥ कष्टाय क्रमत इति कष्टायते ॥ पापं कर्तुमुत्सहत इत्यर्थः ॥
(ऊष्मबाष्पधूमेभ्य उद्वमने ) ऊष्मायते । बाष्पायते। धूमायते॥