________________
(१६६) . सिद्धान्तचन्द्रिका। [ आख्याते नामधातुप्र० । . (हसात्तद्धितयस्य लोपो ये च्वौ च ) गार्गीयति॥ वाच्यति॥ कवीयति ॥ समिध्यति । समिधाञ्चकार-समिध्याञ्चकार । समिधिता-समिध्यिता॥
(सुबोधिनी) हसात्तद्धितयस्य लोपो ये च्वौ च ॥ हसादुत्तरस्य प्रत्यय यकारस्य लोपो भवति यप्रत्यये चिप्रत्यये च परे॥ण्यायनणिति ण्यः । च्चों गार्गी; भवात । गार्ग्यमिच्छति गार्गीयति॥ वाचमिच्छति अप्ययोरादित्यत्र चपा अबे जबा इत्यकरणेन क्वचित्प्रत्यये पदकार्य नेति ज्ञापितम् । तेन पदत्वाभावात् चोः कुरिति कुत्वं नवाच्यामि ॥ आत्मनः कविमिच्छति।'ये' इति दीर्घः। कवीयति ॥ समिधमिच्छति समिध्यति । हसाद्यस्येति आदेः परस्येति यलोपः । यत इत्यलोपः । तस्य लोपः। तस्य स्थानिवत्त्वादुपधाया लघोरिति गुणो न । समिधिता-समिध्यिता ॥
(मान्ताव्ययाभ्यां यो न ) किमिच्छति । इदमिच्छति । स्वरिच्छति । उच्चरिच्छति ॥
( सुबोधिनी)-मान्ताव्ययाभ्यां यो न ॥ मान्तप्रकृतिकान्नाम्नोऽव्ययाच यो न । किमिच्छति । स्वरिच्छति ॥ __ (तत्त्वदी०)-मान्ताव्ययाभ्यामिति ॥ मान्तमिह नामैव नतु सिवन्तम् । अन्यथा पुत्रमिच्छतीत्यत्रापि मान्तत्वान्न स्यात् ॥ - (अश्ववृषयोर्ये सुक् मैथुनेच्छायाम् ) अश्वस्यति वडवा । वृषस्यति गौः॥
(सुबोधिनी)-अश्ववृषयोर्ये सुक मैथुनेच्छायाम् ॥ अश्वस्यति । मैथुनार्थमश्वमिच्छतीत्यर्थः । वृषमिच्छति मैथुनार्थं वृषस्यति ॥
(तत्त्वदी०)-अश्ववृषयोरित्यादि ॥ अश्ववृषभेच्छा यदा मैथुनार्था न त्वारोहणाद्यर्थी तदैव सुगित्यर्थः। अन्येतु “इति रामोवृषस्यन्तीम्' इत्यादिप्रयोगदर्शनात्परित्यक्तप्रकृतार्था मैथुनेच्छैवार्थ इत्याहुः ॥ - (क्षीरलवणयोर्लालसायां सुक्)क्षीरस्यतिबालालवणस्यत्युष्ट्रः॥
(सुबोधिनी)-क्षीरलवणयोर्लालसायां सुक् ॥ लालसायामुत्कटेच्छायां सुक ये ॥ क्षीरमिच्छति क्षीरस्यति । लवणस्यति ॥
( तत्त्वदी०)-लालसायामिति ॥ तृष्णातिरेको लालसा । क्षीरलवणविषय इच्छातिरेको यदाभ्यवहारार्थो न तु होमाद्यर्थस्तदेत्यर्थः ॥
(नानो ये लालसायां सुगमुकौ) दधिस्यति, दध्यस्यति। मधुस्यति, मध्वस्यति। यशस्काम्यात । सर्पिष्काम्यति ॥