________________
{ आख्याते नामधातुप्र० ]
टीकाद्वयोपेता ।
(१६५)
णाय तदिति चेत् धातोः सविधानेन परिशेषान्नाम्नो लाभात् । अथ सिबन्तादपि स्यात् इष्टत्वात् । न च वाच्यतीत्यादौ जबादिप्रसंगः स्यादिति वाच्यम् । अप्ययोरादित्यत्र जबाकरणेनये पदकार्याभावस्य ज्ञापितत्वात् राजीयतीत्यादौ तज्ज्ञापकसिद्धस्यासार्वत्रिकत्वान्न लोपः॥ ननु महान्तं पुत्रमिच्छतीत्यत्रानेकस्मान्नाम्नो यबाधनाथ तदिति चेन्नपदार्थः पदार्थेनान्वेति न तु पदार्थंकदेशेनेति पुत्रस्यैकदेशत्वेनान्वयाभावात् । सविशेषणानां वृतिन वृत्तस्य वा विशेषणयोगो नेति वचनाच्च । एवं च कर्मत्वद्योतकविभक्त्यभावेन कथं तद्बाध इति दूषणपरिहाराय यत्रानेककारकसंभवस्तत्र कारकस्य विशेषबोधार्थे विभक्त्यपक्षणमिति सिद्धान्तानुसारेण क्लेशोऽपि न कार्यः॥ आत्मनः पुत्रमिच्छतीति । पुत्रो मे स्यादितीच्छतीत्यर्थः॥ गव्यतीति ॥अवर्णाभावान्नेत्वम् ॥त्वद्यतीति॥त्वामिच्छति॥ युष्मद्यति॥युवां युष्मान्वेच्छतीति वाक्ये त्वदादेशो न एकार्थत्वाभावात्।युवावौद्विवचन इतिस्याद्यभावान्न।
(काम्यश्च ) पुत्रकाम्याश्चकार ॥ (सुबोधिनी)-काम्यश्च नाम्न इच्छायामर्थे काम्यप्रत्ययःस्यात्॥आत्मनः पुत्रमिच्छति पुत्रकाम्यात । यत इत्यलोपः। पुत्रकाम्याञ्चकार । पुत्रकाभ्यिता। इहानपि च हसादिति यलोपो न । अर्थवद्रहणे नानर्थकस्य ग्रहणमिति परिभाषया ॥
(धनस्य नेकारो गार्ये) धनायति-अन्यत्र धनीयति ॥ - (सुबोधिनी)-धनस्य नेकारो गाउँ ॥गार्दोऽभिलाषुकस्तस्य भावे गाद्धर्ये यण । सत्यपि धने पुनर्धनमिच्छतीति धनायति । 'ये' इति दीर्घः । यश्च दरिद्रः सन् धनमिच्छति तत्र धनीयति ॥
(तत्त्वदी० )--गाद्धर्य इति ॥ गो लोभातिशयः ॥धनायतीति ॥ सत्येव धने भूयो धनमिच्छतीत्यर्थः॥ धनायतीति॥ दरिद्रः सन् धनमिच्छतीत्यर्थः ॥
(उदकस्योदन पिपासायाम् ) उदन्यति-अन्यत्रोदकीयति ॥ गीर्यति। गिराञ्चकार-गीर्याश्चकार॥पूर्यति॥दिवमिच्छति। दिव्यति॥
अमुमिच्छति अदस्यति । ऋतो रिङ् । कौयति ॥ ___ (सुबोधिनी)-उदकस्योदन पिपासायाम्॥यश्च सद्य एव पातुमुदकमिच्छति तत्र तु उदन्यति-यश्च कालान्तरोपयोगार्थ पातुमुदकमिच्छति तत्र उदकीयति॥गिरमिच्छति गीर्यति 'य्वोर्वि हसे' इति दीर्घः ॥ पुरमिच्छति पूर्यति । 'य्वोर्वि हसे' इति सूत्रे धातोरिकारोकारयोरित्युक्तत्वान्नेह । दिवमिच्छति दिव्यति । दिवुधातोः विपि विङति झसे काविति वस्योत्वे द्युरिति भवति । यप्रत्यये द्यूयतीति । कर्तारमिच्छति ऋतो रिङिति रिङ् । य इति दीर्घः । कर्बीयति ॥
(तत्त्वदी०)-पिपासायामिति ॥ पातुमिच्छा पिपासा तस्याम् उदन्यतीति। पातुमिच्छतीत्यर्थः । अन्यत्र तदभावे ॥ दिव्यतीति ॥ धातुत्वाभावान दीर्घः ॥