________________
सिद्धान्तचन्द्रिका |
अथ नामधातुप्रक्रिया |
नानो य ई चास्य ॥ नाम्न इच्छायामर्थे यप्रत्ययो भवत्यवर्णस्य च ईकारः ॥ आत्मनः पुत्रमिच्छति पुत्रीयति ॥ क्वचित्स्वरवद्य - कारः ॥ गामिच्छति गव्यति । गव्याञ्चकार ॥ नाव्यति । नाव्याश्चकार ॥ त्वामिच्छति त्वद्यति ॥ ( हसाद्यस्य लोपो वाऽनपि नामधातौ ) त्वदांचकार - त्वद्यांचकार ॥ मामिच्छति मद्यति । युष्मद्यति । अस्मद्यति ॥
(सुबोधिनी ) - नाम्रो य ई चास्य ॥ आद्भुवीत्यतः कर्मणीति इच्छायामात्मन इत्यत इच्छायामिति आत्मन इति चानुवृत्तम् । कर्मणि वर्तमानान्नाम्नो यप्रत्ययः स्थात || आत्मशब्दस्तु परव्यावृत्त्यर्थस्वशब्दपर्यायो गृह्यते । इच्छायाश्च क्रियात्वेन स्वाश्रयः कर्ताक्षिप्तः । स चेदिष्यमाणं वस्तु स्वसंबन्धित्वेनाऽपेक्षते तदा यप्रत्ययः ॥ आत्मनः स्वसंबन्धित्वं साक्षाद् ग्राह्यम् । तेन यजमानस्य पुत्रमिच्छति पुरोधा इत्यत्र न यः । महान्तं पुत्रमिच्छतीत्यत्रापि न यः। सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणयोगो नेति वचनात् । य इति सप्तम्या विपरिणम्यते । अवर्णान्तस्य नाम्न ईवं च ये परे । समासप्रत्यययोरिति विभक्तेर्लुक् । सधातुरिति धातुत्वात्तिवादिः । पुत्रीयति । पुत्रीयेत । पुत्रीयतु । अपुत्रीयत् । कासादिप्रत्ययादित्याम् । यत इत्यलोपः । पुत्रीयाञ्चकार । यत इत्यलोपः । पुत्रीयात् । पुत्रीयिता । पुत्रीयिष्यति । अपुत्रीयिष्यत् । अपुत्रीयीत्॥गामिच्छति गव्यतीत्यत्र 'खोर्लोपशू वा पदान्ते' इति तु न भवत्यपदान्तत्वात् । अनपि संनिपातपरिभाषया यप्रत्यययकारस्यानपि च हसादिति लोपो न । यकारे परे वान्तादेशविधानात । वकारो यस्य लोपस्य निमित्तं न भवतीति भावः । गव्याञ्चकार । गव्यिता । त्वामिच्छति त्वन्मदेकत्वे इति त्वन्मदादेशौ । त्वद्यति । यत इत्यलोपः । अनपि च हसादिति यलोपः ॥ हसाद्यस्य लोपो वानपीति ॥ इसान्तान्नाम्नो यस्य लोपो वा अनपि परे । त्वदाञ्चकार ॥ मामिच्छति मद्यति। युवां युष्मान्वेच्छति युवावाविति सूत्रे विभक्तावित्युक्तं ततो विभक्तिपरत्वाभावान्न युवावों एकार्थत्वाभावात् त्वन्मदावपि न । युष्मद्यति । एवमस्मद्यति ॥
(तत्त्वदी ० ) - नानो य इति । अत्राद्भुवीत्यतः कर्मणीत्यनुवर्त्य कर्मणि वर्तमानानाम्न इति बोध्यम् । तेन पुत्रेणेच्छतीत्यादौ न । आत्मन इत्यनुवर्तते । स च न चेतन द्रव्यवाची किंतु परव्यावृत्यर्थस्वशब्दपर्यायः। तेन घटादेरचेतनत्वेऽपि घटीयतीत्यादि भवत्येव । इच्छया कर्ताक्षिप्यते । स चेदिष्यमाणं वस्तु स्वसंबन्धित्वेनापेक्षते । तेन परस्य पुत्रमिच्छतीत्यत्र न । तच्च साक्षादेव । तेन यजमानस्य पुत्रमिच्छति पुरोधा इत्यत्र न । स्वसबन्धित्वं चेष्यमाणेन रूपेण विवक्षिते तेन स्वस्य पुत्रं परस्य दासमिच्छतीत्यत्र न। अत्र यदिष्यमाणं दासत्वं तच न । स्वसम्बन्धि । नाम्न इति तूत्तरार्थम् । धातुवार
( १६४ )
[ आख्याते नामधातुप्र०