________________
[ आख्याते यङ्लुगन्तप्र० ] टीकाद्वयोपेता ।
(१६३ ) रिष्यति । अतात्वरिष्यत् । अतात्वारीत्-अतात्वरीत् ॥ निवु । सेस्रिवीति-सेस्रोति । सेस्रीव्यात् । सेस्रिवीतु--सेस्रोत--सेसुतात्।असेस्रिवीत्--असेस्रोत् । सिपि । असेस्रोः। ससवांचकार । सेस्रीव्यात् । सेविता । सेस्रविष्यति । असेस्रविष्यत् । असेस्रवीत् ॥ 'भव । मामवीति । ईडभावे ऊत्वे कृते गुणः।मामोति । उत्तमे तु मामवीमि--मामोमि । यवयोर्वसे इति वलोपः।मोरित्यात्वम् । मामावः, मामूमः । मामव्यात् । मामवीतुमामोतु--मामूतात् । हो मामूहि । अमामवीत्-अमोमोत् । उत्तमे तु अमामवम्, अमामाव, अमामूम । लुङि अमामावीत्॥तुर्वी हिंसायाम् । बोर्वि हसे इति दीर्घः । यङीति पूर्वस्य गुणः । तोतूर्वीति । ईडभावे तोतूर्ति ॥
(तत्त्वदी०)-उपधावकारयोरिति ॥ उपधा चवकारश्च उपधावकारौतयोः द्वयोः स्थाने ऊरित्यर्थः ॥ मामाव इति । अत्र झसादित्वाभावेन ऊत्वाभावः । यवयोरिति बलोपे दीर्घः ॥
(रेफाच्छोर्लोप: क्वौ झसादौ ञमादौ हे च प्रत्यये) तोतोति, तोतूर्तः, तोतूर्वति । तोतूर्वीषि-तोतोर्षि । तोतर्वः, तोतूर्मः। सिपि अतोतूर्वीः-अतोतोः ॥ तोथोर्ति, तोथूर्तः ॥ दोदोति ॥ दोधोति ॥ मुच्छा मोहसमुच्छ्राययोः॥ मोमूीति-मोमोति, मोमूतः, मोमूर्च्छति । मोमूर्मः । अमामूीत् ॥ इति यङ्लुगन्तप्रक्रिया ॥
(सुबोधिनी)-रेफाच्छोर्लोपः को झसादौ ञमादौ हेच प्रत्यये ॥रकारात्परयोर्धातोः छ कारवकारयोर्लोपः स्यात् विपि परे झसे जमे हे च । कावुदाह। रणम् । तुर्वी । तूः, तुरौ, तुरः ॥ धुर्वी । धूः,धुरौ, धुरः ॥ मुर्छा । मूः, मुरौ, मुरः । झसादौ तु रेफाच्छोरेति वलोपः । उपधाया लघोरिति गुणः । तातोति । यद्यप्यत्रयवयावस इत्यनेन वलोपः सिव्यति तथापि तोतूर्त इत्यादौ वलोपार्थ रेफाच्छोलोप इत्युपन्यस्तम् । अन्यथा तत्र यवयोर्वसे इति लोपं बाधित्वा वस्य क्ङिति झसे इति ः स्यात् । तोतूात् । तोतूर्वीतु-तोतोर्तु-तोतूर्तात् । अतोतूर्वीत् अतोतोः । लुङि अतोतूर्वीत्॥थुर्वी धुर्वी हिंसायाम्।तोथूर्वीति-तोथोति।तोथूात् । तोथूर्वीतु तोथोतुतोथूर्तात् । अतोथूव-त्-अतोथोः । लुङि अतोथूर्वीत्॥धुर्वी । दोधूर्वीति-दोधोति । दोधूात् । दोधूर्वीतु-दोधोर्तु-दोधूर्तात् । अदोधूर्वीत्-अदोधोः । लुङि अदोधूवात् ॥ मुर्छा मोहसमुच्छाययोः । मोमूर्छति । ईडभावे रेफाच्छोरिति छलोपः। उपधाया लधोरिति गुणः।मोमोर्ति । मोमूच्छात् । मोमूीतु-मोमोर्तु-मोमूर्तात् । अमोमूच्छीत्-अमोमोः । लुङि । अमोमू त॥अज गत्यादौ । अजेरचतुर्पु वीति यडि विवक्षिते वी-आदेशः । वेवीयते । अस्य यङ्लुङ् नास्ति लुका अपहारे विषयत्वासंभवेन वीभावस्याप्रवृत्तेः ॥ इति सुबोधिन्यां यलुगन्तप्रक्रिया ॥ (तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा। बाधनं दुष्टबुद्धीनामगाद्यङ्लुक्प्रसाधनम् ॥
इति तत्त्वदीपिकायां यङ्लुगन्तप्रक्रिया ॥ ४ ॥