________________
सिद्धान्तचन्द्रिका। [आख्याते यङ्लुगन्तप्र०] पापच्छीतु-पाप्रष्टु-पाप्रष्टात् । हो झसादिहें रिति धिः । क्ङिति झसे इति छस्य शः। झशषेति षः। झवे इति षस्य डः ष्टुत्वं चापाप्रदि । अपानच्छीत्-ईडभाव दिस्योरिति दिसिपोर्लोपः। छशति पः। षोड इति डः। अपाप्रट्, अपाप्रष्टाम्,अपाप्रच्छुः। अपामच्छीः , अपाप्रट, अपाप्रष्टम्, अपाप्रष्ट । अपाप्रच्छम, अपाप्रक, अपाप्रश्म । पाप्रच्छांचकार । पात्रच्छयात् । पाप्रच्छिता । पाप्रच्छिष्यति । अपाप्रच्छिष्यत् । अपाप्रच्छीत् ॥ हय गतौ । जाहयीति-ईडभावे यवयोर्वसे इति यलोपः । जाहति । उत्तमे तु जाहयामि-यवयोरिति यलोपे व्मारित्यात्वम् । जाहामि । जाहय्यात । जाहयीतु-जाहतु-जाहतात, जाहताम्, जाहयतु । जाहहि-जाहतात् । उत्तमे तु जाहयानि । लडि अजाहयीत-अजाहत । जाहयांचकार । जाहय्यात । जाहयिता। जाहयिष्यति । अजाहयिष्यत् । ह्यन्तेति न वृद्धिः। अजाहयीत् ॥ हर्य गतिकान्त्योः । आत इत्यात्वम् । जाह-ति-ईडभावे यवयोर्वसे इति यलोपः । जाहति । जाहात् । जाहींतुजाहर्तु-जाहर्तात् । अजाहीत् । अजाह-त्-अजाहः । जाहांचकार । जाहात् । जाहर्यिता । जाहयिष्यति । अजाहयिष्यत् । अजाहति ॥ __(तत्त्वदी०)-जाहतीति । यवयोरिति यलोपः ।। . (ज्वरत्वरस्रिव्यविमवामुपधावकारयोरूः को झसादौ ञमादौ हकारेच प्रत्यये) जाज्वरीति-जाजूर्ति, जाजूर्तः, जाज्वरति । जाज्वर्वः, जाजूर्मः । अजाज्वरीत् अजाजूः ॥ तात्वरीति-तातृर्ति । अतात्वरीत्-अतातूः ॥ सेस्त्रिवीति-सेस्रोति । सेस्रीव्यात । असेत्रिवीत्-असेस्रोत् ॥ मव बन्धने । भाभीति-मामोति, मामूतः, मामवति । मामवः, मामूमः । मामूहि मामवानि । अमामवीत्अमामोत् । सिपि अमामवी:-अमामोः । अमामवम्, अमामाव, अमामूम ॥ तुर्वी शुर्वी दुर्वी धुर्वी हिंसायाम् । तोतूर्वीति ॥
(सुबोधिनी )-ज्वरत्वरस्रिव्यविमवामुपधावकारयोरूः क्वौ झसादी अमादौ हकारे च प्रत्यये ॥ ज्वर रोगे । जित्वरा संभ्रमे । सिवु गतिशोषणयोः। अव पालने । मव बन्धने । ज्वरादेरुदाहरणं विपि जूः, जुरौ, जुरः । झसादौ तु जूर्तिः। जुर्णः । जूर्णवान् ॥ तूः, तुरौ, तुरः । तूर्तिः । तूर्णवान् ॥ स्वः, सुवौ, सुवः। स्मृतिः॥ ऊः, उवौ, उकः। ऊतिः ॥ मूः, मुवौ, मुवः । मूतिः । मूतः । ज्वर । आत इति पूर्वस्यात्वम् । जाज्वरीति । ईडभाव उपधावकारयोरूः। जाजूर्ति, जाजूर्तः, जाज्वरति । जाज्वर्यात् । जाज्वरीतु-जाजूर्तु-जाजूर्तात् । अजाज्वरीत्--अजाजूः। जाज्वरांचकार। जाज्वर्यात् । जाज्वरिता । जाज्वरिष्यति।अजाज्वरिष्यत् । अतो हसादेरिति वा वृद्धिः। अजाज्वारीत्-अजाज्वरीत्॥ जित्वरा संभ्रमे । तात्वरीति-तातूर्ति । तात्वर्यात् । तात्वरीतु--तातूर्तु-तातूर्तात् । अतात्वरीत्-अतातुः। तात्वरांचकारतात्वर्यात् । तात्व